________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
व्यभिचारोपलब्धिः । तथाहि ' कादम्बर्यादौ सकलदेवतानमस्कारसंभवेऽप्यभिप्रेतस्यासिद्धिरुपलभ्यते, क्वचित्तु शिशुपालवधादौ नमस्कारमन्तरेणापि साध्यस्य सिद्धिरुपलब्धेति । तथा च अप्रस्तुताभिधायी कणादः कैश्चिदुपालब्धः
धर्म व्याख्यातुकामस्य षट्पदार्थोपवर्णनम् ।
सागरं गन्तुकामस्य हिमवद्गमनोपमम् ॥ इति ।
यदप्युक्तम्– शास्त्रस्य सम्बन्धप्रयोजनाभिधानार्थं चेति, तदप्यनुचितम्, तस्याप्यप्रस्तुतत्वात् । न चैतच्छक्यते वचनशतेनापि प्रतिपादयितुमनधीतशास्त्रस्य । समधिगतसकलशास्त्रार्थो हि सम्बन्धं प्रयोजनं च स्वयमेव प्रतिपत्तुं क्षमत इति । तदेतत् सर्वम् अनुचितम्, अभिमतवस्तुचिकीर्षवो हि प्रेक्षापूर्व कारिणोऽभीष्टदेवतानमस्कारपुरःसरमेव कार्यं समारभन्ते, तथा च सति शिष्टसमाचारः परिपालितो भवति । नमस्कारप्रसूतधर्मद्वारेण साध्यस्य सिद्धिरविघ्नितप्रसवा समर्थिता च भवति ।
यदप्युक्तं 'कादम्बर्यादौ व्यभिचारादनुचितमिति । तत्रेदं चिन्त्यते, किमनेन दृष्टान्तावष्टम्भेनाचष्टे भवान् किं धर्म एव नमस्कारसाध्यो न विद्यते ? उतस्वित् सन्नपि नोपकारसमर्थः ? यदि तावत् पूर्वः पक्षः, सोऽप्यनुचितः - धर्माभावपक्षस्य शास्त्रान्तरप्रसिद्धैः प्रमाणैः प्रत्याख्यातत्वात् । अथोत्तरोऽङ्गीक्रियते ? सत्यमेतद् । धर्मस्य तावदभिप्रेतसिद्धौ सामर्थ्यमन्यत्र प्रमाणेनोपलब्धम्, यत्र च नोपलभ्यते तत्राधर्मस्यैव प्राचुर्यात् कार्यस्य सिद्धिर्न भवतीत्यनुमीयते । तेन कादम्बयदिः कर्तुरभिप्रेतासिद्धेरनुमितमधर्मराशिं भूयांसं कथमिव नमस्कारमात्रसाध्यो धर्मः प्रतिबधुं क्षमत इति । तस्यैतदेव फलम्, यदुत कार्यस्य कियती निर्वृत्तिरिति । यदपीदमुच्यते - नमस्कारमन्तरेणापि साध्यस्य सिद्धिरुपलब्धेति, तदप्यनुचितम् - न हि नमस्कारमात्रसाध्याम् अभिप्रेतसिद्धिं मन्यामहे, अपि तु धर्मसाध्याम् । धर्मश्चानेकसाधनसाध्यः ।
१.
२.
मङ्गलाचरणविषये एवं मन्यते यत्र विघ्नाभावस्तत्र मङ्गलाभादेऽपि कार्यसिद्धिः । विघ्नसत्त्वे मङ्गलाभावेऽपि कार्यसिद्धौ सत्यां जन्मान्तरीयं मङ्गलमुद्भाव्यते । कादम्बर्यादौ तु अपेक्षितमङ्गलाभाव एव कार्यसिद्ध्यभावे हेतुरुच्यते ( द्र०- न्या० सि० मु०, पृ० ५-९ इत्यादौ) ।
-
महाकविबाणभट्टप्रणीता कथा ' कादम्बरी' । ग्रन्थस्यास्योत्तरार्धभागो बाणभट्टपुत्रेण भूषणभट्टेन विरचितः ।