________________
कातन्त्रव्याकरणम्
चैषामुदात्तादिनियमेनार्थप्रतिपादनम् । न हि स्वरविशेषमजानन्तः शब्दार्थतया स्वार्थ (शब्दानुपलभमानानर्थम्) प्रतिपद्यन्ते । ____ कः पुनः शब्दः' ? प्रतिनियतो वर्णानां व्यूहः । नियतव्यूहा हि वर्णाः श्रूयमाणा अर्थं गमयन्ति । ननु कालभेदाद् वर्णानां समुदायानुपपत्तिः ? सत्यम्, पूर्ववर्णकृतोऽतिशयोऽन्त्यवर्णेन सह सदृशं सङ्गच्छते, सोऽयं समूहार्थं प्रतिपादयति । कः पुनरसावतिशयः ? पूर्ववर्णस्मृतिकृतोऽन्त्यवर्णविषयानुसन्धिप्रत्ययः। नन्वन्त्यवर्णोपालम्भात् कथं पूर्ववर्णस्मृतिः ? न ह्यमीषां कश्चित् प्रतिबन्धोऽस्ति । नैतदेवम्, एकपदनिबन्धनो हि वर्णानां प्रतिबन्धः । यथैकग्रन्थनिबन्धनोऽर्थानाम् । न पुनर्वर्णव्यतिरिक्तं पदमस्ति, न हि वर्णोच्चारणमन्तरेण तदुपलभ्यते । अथ वर्णैः पदं व्यज्यते, न तावदेते समुदिताः पदं व्यञ्जयितुमर्हन्ति । नहि भिन्नकालानां समुदाय उपलभ्यते । अथैकशः पदव्यक्तिस्तर्हि वर्णान्तरेण वैयर्थ्यम् ।
अथ पदैकदेशा विद्यन्ते (व्यज्यन्ते) ते यदि पदात्मानः, प्रत्यक्षरमर्थव्यक्तिप्रसङ्गः । अथ विपरीताः, कथं पदैकदेशाः, न ह्यपदानां समूहः पदं भवितुमर्हति । भवतु वा, न हि तेषां यौगपद्यम्, न च तदन्तरेण पदोत्पत्तिः । अथ तेभ्योऽन्यत् पदम्, तर्हि किमात्मानस्ते, किं च कुर्वते । नहि एकदेशतः (एकशः) समुदायतो वा पदममी व्यञ्जयितुं क्षमाः । यदि पुनरस्मत्परिकल्पनया वर्णेभ्यः पदव्यक्तिरङ्गीक्रियते, अर्थव्यक्तिरेव किं नाङ्गीक्रियते ? अथ व्यक्तिरेवाङ्गीक्रियते । नहि तत्रात्र वा कश्चिद् विशेषोऽस्ति ।
किञ्च विभक्त्यन्तं हि पदमिष्यते । न ह्यवर्णात्मनो वर्णलक्षणा विभक्तिरन्तोऽवयवविशेषो भवितुमर्हतीति स्थितम् । किं शब्दोपदेशेन शब्दानां व्युत्पत्तिराहोस्विद् अपशब्दोपदेशेन ? उभयथापि न दोषः । यदि शब्दा उपदिश्यन्ते, गम्यते एतदतोऽन्येऽपशब्दा इति । यथा भक्षणीयमेव इदम् । गम्यते-एतदयेऽन्यदभक्ष्यमिति | अथापशब्दा उपदिश्यन्ते, गम्यते एतदतोऽन्ये शब्दा इति । यथा अभक्ष्यप्रतिषेधेन
१. शब्दलक्षणं द्विविधं महाभाष्ये द्रष्टव्यम् (पस्पशा०)। '२. विभक्त्यन्तं पदमाहुरापिशलीयाः (क० च० १।१।२०)। ३. द्र०, म० भा० - पस्पशा०, पृ० ३२