________________
सन्धिप्रकरणे प्रथमः सञ्ज्ञापादः
गम्यते एतदतोऽन्यद् भक्ष्यमिति । लघुत्वात् शब्दोपदेशो लघीयान्, गुरुत्वादपशब्दोपदेशो गरीयान् (नापशब्दोपदेशः ) । एकैकस्यापि शब्दस्य बहवोऽपभ्रंशाः । तद् यथा गौरित्यस्य गावी-गोणी-गोता (गोमी) - गोपुत्तलिकेति । इष्टत्वाच्चतुष्टयं खलु शब्दानामन्वाख्यानम् । न चान्यमुखेनेष्टं क्रियते, तत् किं प्रतिपदमुतान्यः कल्प इति ? अन्य इति ब्रूमः ।
•
कः पुनर
अनभ्युपायः खल्वेष शब्दानां प्रतिपत्तौ प्रतिपदपाठः । सावुत्सर्गापवादविधि: ? सामान्यलक्षणमुत्सर्ग, विशेषलक्षणमपवादः । सोऽयमेवं प्रवृत्तसामान्यविशेषविधिरल्पीयानपि भूयसां शब्दानां प्रतिपत्तिहेतुर्भवतीति । स किं वर्णलक्षणः शब्दो नित्य उतानित्य इति वा ? नित्य इति ब्रूमः । सिद्धो वर्णसमाम्नायः । वर्णानां नियतव्यूहः समाम्नायोऽर्थः प्रसिद्धो नित्यो वेदितव्यः । नहि नित्ये सङ्केतकालोपलब्धः शब्दः पुनरुपलभ्यते । न चान्यः शब्दोऽर्थं गमयितुमर्हति नहि प्रथमोपलब्धः शब्दोऽर्थं गमयति, स एवायमिति सङ्केतकालोपलब्धं शब्दं प्रत्यभिजानन्तोऽर्थं प्रतिपद्यन्ते ।
,
अथवा सिद्धो निष्पन्नः कृतको वर्णानां समाम्नायो नियतव्यूहोऽर्थप्रतिबन्धो गौरश्वः पुरुष इति वेदितव्यः । नहि नित्यः कारणव्यापारपदात्मानं लब्धुमर्हति । प्रयत्नादीरितो हि वायुः कण्ठादिभिरभिहतो वर्णान् निष्पादयति । नहि वाय्वभिघातः कण्ठादीनां शब्दं व्यनक्ति । व्यक्तिर्हि शब्दोपलब्धिः, न च श्रोत्रमन्तरेण शब्दप्रतिपत्तिर्भवितुमर्हति । नहि कण्ठादिदेशे श्रोत्रसम्भवो न च श्रोत्रदेशे शब्दव्यक्तिरभिघातासम्भवात् । न श्रोत्रदेशे कण्ठाद्यभिघातः शब्दव्यञ्जकः सम्भवति । वायुसंयोग इति चेद् अथ मन्यसे कण्ठादिभिरभिहतो वायुर्बहिर्निःसृतो बाह्यानि वाय्वन्तराणि प्रतिबाधमानः श्रोत्रैः सह संयुज्यते । स संयोगः शब्दं व्यनक्तीति, तन्न । केवलस्यासामर्थ्यात् कण्ठादिभिरभिहतो हि वायुर्विभागान्निवृत्तः न च तत्कृतोऽतिशयो वायोरस्ति ।
कथं केवलो वायुः प्रतिनियतवर्णव्यञ्जनसमर्थो भवति, कथं च वक्तृभिः प्रेरितो वायुर्बहिर्निस्सरति, श्रोत्रदेशं वा कथं गच्छति ? ते हि कण्ठाद्यभिघातानुसारेण वर्णव्यक्तिमवलोक्य कण्ठादीन् प्रति वायुं प्रेरयन्ति । ततो हि शब्द उत्पन्नः सर्वतो दिक्कान् शब्दान् आरभते, ते च नियतदेशानेव शब्दानारभन्ते तावदेव यावच्छ्रोत्र