________________
सन्धिप्रकरणे प्रथमः सजापादः न चायं क्रमः प्रतीयते, अनुभयवेदिनां च स्त्रीशूद्राणां का वार्ता ? न हि तेषां शब्दव्यवहारो न सम्भवति । धर्महेतुत्वमिति ब्रूमः । कथम्, यदि ज्ञानाद् धर्मोऽपि स्यात् । यो हि शब्दाजानाति सोऽपशब्दानपि । न चायं नियमः, शब्दज्ञानाद् धर्मो नापशब्दज्ञानादधर्म इति । अथ प्रयोगात्, तथाऽधर्मोऽपि । नहि शब्दप्रयोक्तृभिरपशब्दा न प्रयुज्यन्ते,शब्दप्रयोगस्य प्रतिपत्रपेक्षत्वात् । न हि सर्वे प्रतिपत्तारः साधुशब्दाजानन्ति । न चायं नियमः । शब्दानां प्रयोगाद् धर्मो नापशब्दानामधर्म इत्युभयथाऽप्यदोषः । शब्दानां ज्ञानात् प्रयोगाच्च' धर्म एव पठ्यते नापशब्दानामधर्म' इति ।
कथम्, यदि सत्यार्थानामसाधूनामपि शब्दानां सोऽस्तीति, अनर्थकोऽयं नियमः | अथ मिथ्यार्थानाम्, न तर्हि तस्यागमभावः । न ह्यागमान्तरेण बाध्यमानं वचनम् आगमः, 'आगमो विचक्षणवतीं वाचं वदेत्' इति श्रुतेः । सत्यार्थानामेव धर्मसाधनत्वम् आगमः शास्ति, नैतदेवम् । धर्मनियमस्य विवक्षितत्वाद् असाधूनामपि सत्यार्थानामस्ति धर्मः । स पुनरनियतः । अन्तर्वाण्या (अन्तर्वेद्याम्) न म्लेच्छितव्यम्, नापभाषितव्यमिति श्रुतेः । न पुनरेवं साधूनामधर्मसाधनत्वं क्वचिदपि श्रूयते च ।
तेऽपि द्विविधाः- लौकिका वैदिकाश्च । तत्र वैदिका आम्नायत एव सिद्धाः । नहि तेषां सम्प्रदायो युगमन्वन्तरादिष्वपि विच्छिद्यते । न च ते शक्या व्युत्पादयितुम्, 'अनन्तत्वाद् वेदशाखानाम् । न ह्यग्दिर्शिनो वेदशाखान्तं गन्तुमर्हन्ति । लौकिकानां शब्दानां पुन पर एव सम्प्रदायो व्याकरणाद् ऋते । व्याकरणेन हि प्रतिनियतार्थप्रतिपादनसामर्थ्यमेषां बुद्ध्वा प्रतिनियतान् शब्दान् प्रयुञ्जते जनाः। न
महाभाष्यानुसार याज्ञे कर्मण्यपशब्दानां प्रयोगादधर्मो भवतीत्युच्यते - "ज्ञाने धर्म इति चेत् तथाऽधर्मः। ........यो हि शब्दाजानाति अपशब्दानप्यसौ जानाति । यथैव शब्दज्ञाने धर्म एवमपशब्दज्ञानेऽप्यधर्मः। अथवा भूयानधर्मः प्राप्नोति । भूयांसो ह्यपशब्दा अल्पीयांसः शब्दाः। .......आचारे नियमः । .......शास्त्रपूर्वक प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देन । ..... यदप्युच्यते आचारे नियम इति । याज्ञे कर्मणि स नियमोऽन्यत्रानियमः ।..... तैः
पुनरसुरैर्याज्ञे कर्मण्यपभाषितम्, ततस्ते पराभूताः (म० भा०- पस्पशा०, पृ० ५३-५८)। २. द्र०- म० भा० पस्पशा० - प्रारम्भे । ३. महाभाष्ये ११३१ शाखा निर्दिष्टाः सन्ति – “एकशतमध्वर्युशाखाः, सहस्रवा सामवेदः,
एकविंशतिधा बाहृच्यम्, नवधा आथर्वणो वेदः" (म० भा० - पस्पशा०, पृ० ५२)।