________________
२७४
कातन्त्रव्याकरणम्
(२ । १।७०) इति प्रतिषेधाद् विरामे विसर्जनीये च रेफ इति । अरेफप्रकृतिरपीति प्रकृष्टं प्रगतं वा चेतोऽस्येति प्रचेतास्तस्य सम्बोधने हे प्रचेतो राजनिति रेफे कृते "रो रे लोपं स्वरश्च पूर्वो दीर्घः” (१ । ५। १७), असंबुद्धौ "अन्त्वसन्तस्य चाधातोः सौ" (२ । २। २०) इति दीर्घः सिद्धः इति संबुद्धावेव दर्शितम् । अपिशब्दस्य बहुलार्थत्वात् सकारप्रकृतेरपि भवति । तेन "प्रचेतसो राजनीति ग" इति सूत्रं न वक्तव्यम्।
उषर्बुधः इति । उषसि बुध्यते इति "नाम्युपध०" (४।२। ५१) इत्यादिना कप्रत्ययः। अहर्पतिर्वेति । अह्रां पतिरिति विग्रहे "व्यञ्जनान्तस्य यत्सुभोः" (२ | ५।४) इत्यतिदेशबलाद् नकारस्य सकारे कृते विसर्जनीये च रेफ इति । वाशब्देन विसर्गस्थितिरपि कथ्यते- अहःपतिरिति । अहरत्रेति नपुंसकलक्षणसिलोपे विरामे "अह्नः सः" (२। ३ । ५३) इति नकारस्य सकारः । अहोरात्रम् इति अहश्च रात्रिश्चेति विग्रहः । “अहःसर्वैकदेशसंख्यातपुण्यवर्षादीर्घादिश्च रात्रिः" (२।६।७३-१७) इति राजादिदर्शनाद् अत् - प्रत्ययः । "इवर्णावर्णयोः" (२ । ६ । ४४) इत्यादिना इकारलोपः।
तथा अह्रो रूपम, अहोरूपम् । “प्रकर्षे वा" रूपप्रत्ययः, तमादिदर्शनात् । प्रकृष्टम् अहः अहोरूपम् । एवम् ‘अह्नि रथन्तरं साम' एतेष्वेव न भवति । तथा चोक्तम्अरेफादाविति योऽयं प्रतिषेधः स प्रतिषेधो रात्रिरूपरथन्तरेष्वेव दृश्यते। सर्वमिदम् अपिशब्दस्य बहुलार्थत्वात् सिद्धम् ।।७५ ।
[क०च०]
रप्रकृतिः । पूर्वसूत्रे परशब्दसमुदायप्रथमान्तनिर्दिष्टत्वेनापिशब्दस्येति च विवृणोतिअघोषवत्स्वरपरोऽपि इति वृत्तिः। “धूर्गीरां पत्यौ रो वा' इति कस्यचित् सूत्रम्, तन्न वक्तव्यम् इत्याह- अपिशब्दस्येत्यादि । बहुलत्वादिति । बहून् अर्थात् लाति ददाति गृह्णाति वा बहुलम् इति ।
यद्येवं बहुलार्थता इति न घटते, बहुलशब्देनैव तदर्थप्रतीतौ अर्थशब्दवैयर्थ्यात् ? सत्यम् । भावसाधनोऽयं निर्देशो मन्तव्यः । बहुलग्रहणमेवार्थः प्रयोजनमस्यापि शब्दस्यासौ बहुलार्थोऽपिशब्दः इत्यदोषः । टीकायां तु बहुलार्थो नास्तीति दर्शितम्, तदुपलक्षणमेव बोध्यम् । यद् वा बह्वर्थविधायकोऽर्थः समुच्चयस्वरूपोऽर्थोऽस्येत्युक्ते टीकापि यथा-श्रुतमेव संगच्छते इति । गीतिरित्यादि । अत्र गीष्पतिः, धूष्पतिरित्यादि