________________
२७३
सन्धिप्रकरणे पचमो विसर्जनीयपादः अहोऽरेफे - अहर्पतिः, अहर्गणः, अहरत्र । रेफे तु - अहोरात्रः, अहोरूपम्, अहोरथन्तरं साम ।।७५।
[दु०टी०]
रप्रकृतिः। प्रकृतिशब्द इह योनिवचन एव संभवति । योनिरुत्पत्तिकारणम् । अपिशब्दोऽत्र बहुलार्थः । बहून् अर्थान् लातीति बहुलम् -
क्वचित् प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद् विभाषा क्वचिदन्यथैव । विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥
गीर्पतिरित्यादि । न च भवति गीःकाम्यति, धूःकाम्यति, पुनःकल्पम्, प्रातःकल्पम्, अन्तःकल्पम्,प्रातःपाशः, स्वःकाम्यति, स्व:कारः, स्वः कामः, पुनःकारः, पुनःकामः, गी:कारः, गीः कामः, धूः कार, धूः कामः । अनव्ययविसृष्टस्यापि न सकारः, तत्र क्वचिदधिकारात् । अन्येष्वप्यघोषेषु रप्रकृतिर्विसर्जनीयो न रेफ इति । हे प्रचेता राजन्निति । प्रचेतसो राजनि वा भवति । प्रगतं चेतोऽस्येति विग्रहः, तस्यामन्त्रणम् । रत्वपक्षे "रो रे लोपं स्वरश्च पूर्वो दीर्घः" (१।५।१७) इति दीर्घः । सावसम्बुद्धौ । दीर्घ सति सिद्धमेव । उषसि बुध्यते इति नाम्युपधत्वात् कः । अहोऽरेफो अरेफादाविति योऽयं प्रतिषेधः सः रात्रिरूपरथन्तरेष्वेव दृश्यते । अहर्पतिर्वेति पक्षे विसृष्ट एवअहःपतिः । अहर्भुङ्क्ते, अहर्ददाति, अहर्वान् इत्यादि नित्यम् । अहश्च रात्रिश्चेति अहोरात्रम् । 'एकदेशविकृतमनन्यवत्' (कात० परि० सू०१) इति इकारान्तेऽपि रात्रिशब्दे परे अहोरात्रिरागतेति । अह्रो रूपम् अहोरूपम् । प्रकृष्टम् अहरिति प्रकर्षे रूपप्रत्ययो यदा तदाप्यहोरूपमिति । अहो रथन्तरं साम । स्यादौ च न भवतिअहोभ्याम्, अहःसु । तथा वनो रेफः स्याद् ईप्रत्यये – धीवरी, पीवरी | आतः क्वनिप् । एवमन्येऽप्यनुसर्तव्याः ।।७५ |
[वि०प०]
रप्रकृतिः। अपिशब्दस्य बहुलार्थत्वात् क्वचिद् विकल्पः, क्वचिन्नत्य इत्याहगीपतिः, गी:पतिर्वेत्यादि । गिरां पतिः, धुरां पतिरिति विग्रहः । "व्यञ्जनान्तस्य यत्सुभोः" (२। ५।४) इत्यतिदेशबलाद् ईरूरौ भवतः । 'पितरत्र, पितर्यातः' इति पितृशब्दाद् "आमन्त्रणे च" (२ । ४। १८) इति सिः, "हस्वनदी०" (२।१।७१) इत्यादिना सेर्लोपः, "घुटि च" (२।१।६७) इत्यरादेशः, "आ च न सम्बुद्धौ"