________________
२६४
कातन्त्रव्याकरणम् विसर्जनीयः । अव्ययो वाऽऽमन्त्रणविषये 'भोः' शब्द इत्याह- भो इत्यादि । “भवतो वादेरुत्वं संबुद्धौ" (२।२।६३) इत्यत्र योगविभागबलाद् भगवदघवतोरपि वादेरुत्वं वर्णयन्ति । तेनानयोरपीत्यर्थः । अयं पुनरुपलक्षणव्याख्यानं न मन्यते, भाषायामनयोः प्रयोगस्यादर्शनात् । आदीषत्स्पृष्टतरश्चेति स्वभावतः अन्तस्थानामीषत्स्पृष्टत्वाद् इहापि यकार ईषत्स्पृष्ट एव प्राप्नोति । ततो "व्योलघुप्रयत्नतरः शाकटायनस्य" ( पा०८। ३।१८) इति ईषत्स्पृष्टत्वं विभाषयेति कश्चिदाह । तदिह न वक्तव्यम्, यथा अन्यत्रायम् ईषत्स्पृष्टः स्वभावात् सिद्धः, तथेहापि ईषत्स्पृष्टतरश्च स्वभावात् सिद्ध एवेति, पर्यनुयोगस्योभयत्राविशेषादिति ।
एवं पूर्वत्रापीत्याह- आदीषस्पृष्टतरश्चेति । आत ईषत्स्पृष्टतर आदीषत्स्पृष्टतर इति पञ्चमीसमासः। तत्पुनरीषत्स्पृष्टतरत्वं स्थानकरणशैथिल्यमुच्चारणकृतमुच्यते । उ निपाते पुनरीषत्स्पृष्टतर एव 'देवा उ, देवायु, भो उ, भोयु, क उ, कयु' । एवमित्यादि पूर्वसूत्रोक्तकार्यं भवतीति, तेन ओकारान्नित्यमिति यन्मतं तस्य निरासः सिद्धो भवतीति ।।७१।
[क० च०]
आभो० । एवमेवग्रहणं नित्यलोपनिरासार्थमिति वृत्तिः । अत ओतो लोपं नित्यम् इति परसूत्रं न वक्तव्यमित्यर्थः । ननु एकैवंशब्देनैवोपपत्तौ किं पुनरेवंशब्देन ? सत्यम् । अत्र जातिपक्षार्थम् । ततः किमिति चेदुच्यते- वारत्र, द्वारत्रेति परो रेफ एव, अन्यथा व्यक्तिपक्षे लोपयकारयोःप्रवृत्तिः स्यादिति विद्यानन्दः। तन्न । जातिव्यक्तिपक्षयोर्लक्ष्यानुसारेण प्रवर्तनात् किं तत्र यत्नान्तरेण । अस्तु वा व्यक्तिपक्ष एवात्र, तथापि रेफविधौ तत्र व्यक्तिकल्पने परत्वाद् रेफ एव भविष्यति । अन्यथा पूर्वसूत्रे व्यक्त्याश्रयणे कथं पुनरुक्तमिति प्रयोगः स्यात्, नैवम् । व्यक्तिपक्षे अग्निरत्रेति प्रत्युदाहरणासङ्गतिरिति पूर्वोक्तविरोधः । “घोषवत्स्वरपरः” (१ १५ | १३) इत्यत्र जातिपक्षमाश्रित्योक्तत्वात् । एतदभिप्रायेणैव पञ्जीकृता साधारणमुक्तमिति, तस्मादवधारणेनैवशब्देन मतान्तरनिराकरणमेव स्फुटीकृतमिति ।
"अव्यये च" इति वाशब्दोऽत्र समुच्चये । "व्योर्लघुप्रयत्नतरः शाकटायनस्य" (पा०८। ३।१८) इति परसूत्रम् । अस्यार्थः- यकारवकारयोर्मध्ये यो लघुप्रयत्नतरः स ईषत्स्पृष्टतरो भवति शाकटायनस्येति नान्यस्येति । तेन विकल्पो लब्ध इति । पर्यनुयोगस्येति प्रश्नस्येति ।उभयत्रापीति सूत्रे कृतेऽप्यकृतेऽपि इत्यर्थः । स्थानकरणशैथिल्यमिति । स्थानं ताल्वादि तत्र करणं साधकतमम् अभिघातलक्षणं तस्य शैधिल्यम् = अल्पप्रयत्न