________________
२६३
सन्धिप्रकरणे पञ्चमो विसर्जनीयपादः ७१. आभोभ्यामेवमेव स्वरे (१।५।१०) [सूत्रार्थ]
आकार तथा भो-शब्द से परवर्ती विसर्ग के स्थान में यकारादेश तथा विसर्ग का लोप होता है यदि विसर्ग से स्वरवर्ण पर में हो तो ।।७१ ।
[दु०वृ०]
आकार-भोशब्दाभ्यां परो विसर्जनीय एवमेवं भवति स्वरे परे । देवा आहुः, देवायाहुः । भो अत्र, भोयत्र । भो-इत्यामन्त्रणौकारोपलक्षणम् । तेन केचित् 'भगो अत्र, भगो यत्र, अघो अत्र, अघो यत्र' | आदीषत्स्पृष्टतरश्चौकारादीषत्स्पृष्टतर एवात्र यकारः । एवमेवग्रहणं नित्यलोपनिरासार्थम् ।।७१ ।
[दु०टी०]
आभो० । भो इति भवतो वादेरुत्वे सति भोस्शब्दश्चाव्ययो विद्यते इति । यथा भो ब्राह्मणौ, भो ब्राह्मणा इति । कथं प्रभोरिह, शम्भोरयम्, कुभोरयम् इति, व्याख्यानतो विशेषार्थप्रतिपत्तिर्नहि सन्देहादलक्षणम्' (काला०परि०सू० ८८) इत्यामन्त्रणविषयो गृह्यते । भो इत्यादि । भगवदघवतोर्वा देरुत्वे सति 'भगो-अघो' शब्दौ ततस्ताभ्यामपीति कश्चित् ।
वयं तु ब्रूमः - किमुपलक्षणेन । क्वचिदपि भाषायां न दृश्यते । आकारादीषत्स्पृष्टतरः ईषत्स्पृष्टश्च यकार इह स्वभावादिति रूपत्रयं पूर्ववत् । ओकारात् पुनरीषत्स्पृष्टतरः स्वभावादिति रूपद्वयमेव । एतदुक्तं भवति- यथा चायमयत्नसाध्य ईषत्स्पृष्टः, ईषत्स्पृष्टतरोऽपि तथेत्यर्थः । यथा हम्मतिरयं स्वभावात् सौराष्ट्रे एव दृश्यते, न सर्वत्र देशे इति । उ निपातेऽपीषत्स्पृष्टतर एव पूर्वस्मिन् इह वेति रूपद्वयमेव । क उ, कयु । देवा उ, देवायु । भो उ, भोयु । एवमित्यादि । यथा पूर्वस्मिन् विसर्जनीयो लोप्यो यं वापद्यते, तथैवेत्यर्थः। तेन कस्यचिदोकारान्नित्यं लोप इति मतम् । तद् व्यवच्छिद्यते इति पुनः स्वरग्रहणमन्यस्वरनिवृत्त्यर्थं तेन 'देवा आगताः, भो ओदनं पचति' इति सिद्धम् ।।७१।
[वि० प०]
आभो० । भो अत्रेति । भवन्त् - शब्दाद् “आमन्त्रणे च" (२।४।१८) इति सिः, "भवतो वादेरुत्वं सम्बुद्धौ" (२।२।६३ ) इति वादेरवयवस्य उत्वम् । सम्बुद्धिसकारस्य