________________
२३४
कातन्त्रव्याकरणम् अनुस्वारो वर्गान्तश्च स्यादेवेति । अथान्तरङ्गेऽनुस्वारादौ कर्तव्ये बहिरङ्गत्वादसिद्धो न्यादेशः, ततश्चानन्त्यत्वाभावात् कथमनुस्वार इति न चोद्यम्, द्विवचनस्य यथाश्रुतवर्णपरिग्रहणेन 'असिद्धं बहिरङ्गम्' (काला० परि० ४२) इत्यस्यापि बाधितत्वात् । 'वात्र समुच्चये' इत्यादेशस्यैकत्वस्य समर्थितत्वात् पूर्वसूत्राद् अकाराधिकारस्य विद्यमानत्वादयं वाशब्दः समुच्चयार्थ एव घटते । उभयोरपि कार्ययोर्वाक्योपात्तत्वान्नकारः शकारे परे अकारं वा प्राप्नोतीत्यर्थः ।। ५८ ।
[क० च०]
शि चौ । ननु प्रशाम इत्यत्र वाक्ये कथं "मो नो धातोः" (४/६/७३) इति कृतो नकारो न श्रूयते इत्याह-वाक्य इत्यादि । "स्वरे धातुरनात्" (४/६/७५) इति स्वरे परे धातुर्निवर्तते, नत्वात् । आकारो न निवर्तते इत्यर्थः । कार्यान्तरबाधनार्थं भविष्यतीति पूर्वेण अकारप्राप्तेरेव बाधेति भावः । अन्यथा अस्मिन्नापे पक्षे पूर्वसूत्रप्रवृत्त्या रूपद्वयमेव स्यादिति, तदा “शि चं वा” इतीत्यादि । ननु "शि चं वा" इति कृतेऽपि वाशब्दः समुच्चयार्थः कथन्न स्याद् विकल्पार्थे वा किं प्रमाणम् ? सत्यम् । यदि "शि चं वा" इति कृतेऽपि विकल्प एव न स्यात् तदा निःसन्देहार्थं चकारग्रहणमेव (शि चम्, चेति) कृतं स्यात् ।
अथ सिद्धान्तेऽपि चकारस्याकरणाद् वाशब्दो विकल्पार्थ एवेति किं नोच्यते ? नैवम् । यदि स्थितिपक्षेऽपि वाशब्दो विकल्पार्थः स्यात् तदा तेन विकल्पेन रूपत्रयं स्यात् । तथाहि पूर्वेण अकारः, अनेन चादेशः । विकल्पपक्षे नकारस्थितिरिति । अत्र यदि एतदेव साध्यं स्यात् तदा निःसन्देहार्थं 'शि चान्तो वा' इति कृतं स्यात् । अयमर्थः - नकारः शि परे चान्तो वा भवति । ततश्च पक्षे विकल्पबलादेव नकारस्थितिः, पूर्वसूत्रेण च ञकारोऽप्यस्त्येवेति । एतेन आदेशद्वयशङ्कापि परिहता भवतीति । न च ' शि चान्तो वा' इति कृते गौरवम् इति वाच्यम्, शङ्काद्वयपरिहारार्थं गौरवस्यापि न्याय्यत्वादिति । तस्मादीदृशस्याकरणाद् वाशब्दः समुच्चयार्थ एव ।
ननु 'शि चान्तो वा' इति क्रियमाणे द्विवचनस्याभावाद् यथाश्रुतवर्णपरिग्रहव्याख्याविरहेण णत्वगत्वयोर्निराकरणाभावात् ते स्याताम् इति , तत् कथमिदमुच्यते इति चेत्, न । णत्वं हि व्यक्तिबलादनुस्वारस्य प्रवर्तमानत्वादेव न भविष्यति । गत्वमपि दृगादिसाहचर्यादौपदेशिकधात्ववयवचवर्गग्रहणान्न भवष्यितीति कश्चित् । तन्न । धात्ववयवस्य गत्वस्वीकारे 'तृष्णग्' इत्यसिद्धेः ।