________________
सन्धिप्रकरणे चतुर्षो वर्गपादः
२३३ तु यथाश्रुतवर्णपरिग्रहबलेन ‘असिद्धं बहिरङ्गमन्तरङ्गे' (कात परि० वृ० ३३) इत्यपि बाध्यते । ‘वाऽत्र समुच्चये' इति सिद्धान्ते तु खल्वेवम्-शकारे ञकारं वा न्चौ वा इत्यर्थः ।।५८।
[वि० प०]
शि न्चौ । कुर्वञ्छूर इति कृञः शन्तृङ्, अनुबन्धलोपः । 'तनादेरुः, करोतेः' (३।२।३७;५।४) इति गुणः । “अस्योकारः" (३।४।३९) इत्यादिना अकारस्योकारः । विरामे संयोगान्तलोपे न्चादेशे कृते पक्षे शकारस्य "वर्गप्रथमेभ्यः"(१।४।३) इत्यादिना छकारः, न्वादेशाभावपक्षे पूर्वेण ञकार एवेति रूपत्रयम् । प्रशाञ्छयनमिति | प्रशान् इति साधितमेव । प्रशामः शयनमिति वाक्ये "स्वरे धातुरनात्" (४।६।७५) इति नकारो निवर्तते। ____ अथ न्चाविति कथमेक एवायमादेशः । यावता नकारचकारौ भिन्नावेव कथं नादिश्यते । नकारस्य नकारकरणं व्यर्थमिति चेत् , तदयुक्तम् । कार्यान्तरबाधनार्थं भविष्यति, नैवम् । एवं सति शकारे रूपत्रयं स्यात् । तथाहि पूर्वेण अकारोऽनेन नकारश्चकारश्चेति । ततो यदि रूपत्रयमभिप्रेतं स्यात् तदा 'शि चं वा' इति कृते विभाषया चकारो भविष्यति । विकल्पबलादेव पक्षे नकारस्य स्थितिः । पूर्वेण ञकारोऽस्त्येव इति रूपत्रयं सिद्धम्, किं नकारकरणेनेति ? तस्मान्नकारकरणादेवादेशोऽयमेक इति ।
यद्येवं "शि चौ" इति कथं न कृतम् ? अकार एवैकत्वम् आदेशस्य बोधयिष्यति । अन्यथा पूर्वेणैव सिद्धत्वात् किमर्थम् अनेन प्रकारकरणेनेति ? एतेनानुस्वारवर्गान्तप्रक्रिया च परिहृता भवति ? सत्यम् । नकारश्चकारान्तो भवतीति साध्यतया चकारः कृतोऽनुविधायकतया च नकार इति । एकविधानेन हि लाघवं भवति, न विधानद्वयेनेति भावः । आदेशस्यैकत्वेऽपि वर्णद्वयापेक्षया द्विवचनम्, तच्च यथाश्रुतवर्णपरिग्रहार्थमेव । अन्यथा न्चादेशे कृतेऽनन्त्यत्वान्नकारस्य "रवृवर्णेभ्यः" (२।४।१८) इत्यादिना णत्वम्, चकारस्य "चवर्गदृगादीनां च" (२।३।४८) इति गत्वं स्यादित्याह - णत्वं गत्वं च न स्याद् इति ।
ननु गत्वं "विरामव्यञ्जनादौ च" (२।३।६४) प्रत्यये विधीयते, तत् कथमिह प्राप्तिः ? सत्यम् । प्रशामः शयनं प्रशाञ्छयनम् इति विग्रहे "व्यञ्जनान्तस्य यत्सुभोः" (२।५।४) इत्यनेन स्यादिति । तर्हि नकारस्यानुस्वारो वर्गान्तता च कथम् ? सत्यम् । अनुस्वारस्य व्यक्तौ प्रवृत्तत्वात् प्रवृत्तस्य च वर्गे वर्गान्तस्यावश्यंभावित्वादित्याह -