________________
सन्धिप्रकरणे चतुर्थो वर्यपादः
२३५
न चास्मिन् पक्षे इह 'शि चं वा' इति कुर्याद् इत्याद्यसङ्गतम् । द्विवचनफलस्याभावादिति वाच्यम् । चकारकरणादेव आदेशद्वयपक्षे नकारस्यान्त्यत्वेन फलस्य सुदूरपराहतत्वात् [गत्वाभावस्य सिद्धत्वात् ] |
हेमकरस्तु - यदि स्थितिपक्षेऽपि वाशब्दस्य विकल्पार्थता स्यात् तदा पूर्वसूत्रे नकारग्रहणम् अपनीय ‘शिनूचो वा' इति विदध्यात्, तदापि रूपत्रयं भविष्यति । अथैवं कृते एक एवादेशः कथं न स्यात् । न चैकादेशे बहुवचनम् असङ्गतम् इति वाच्यम्, वर्णत्रयापेक्षया बहुवचनस्य चरितार्थत्वात् ? सत्यम् । यद्येक एवादेशः स्यात् तदा नकारस्य वर्गान्तत्वे संयुक्तसजातीययोर्वर्णयोरुच्चारणाभेदान्नकारो व्यर्थः स्यात् । तस्माद् भिन्नावेवादेशाविति ।
अथ बहुवचनादेशत्रयं कथं न स्यात् ? नैवम् वाग्रहणात् । बहुवचनं तु वर्णद्वयापेक्षया चरितार्थम् । तस्मात् पूर्वसूत्रे नकारकरणादिहाप्यादेशैकत्वस्य च समर्थितत्वादयं वाशब्दः समुच्चयार्थ एवेत्याचष्टे । आदेशस्य द्वित्वे बहुवचनाद् गत्वाभावस्तस्माद् भिन्नयोगकरणाद् वाशब्दः स्थितिपक्षे समुच्च्दयार्थ एवेत्याचष्टे । अन्ये तु यदि सिद्धशास्त्रे विकल्पः स्यात् तदापि पक्षे ञकारो भविष्यतीति साध्यक्षतेरभावात् समुच्चयार्थत्वमेव युक्तम् । न च विकल्पबलेन पक्षे नकारस्थितिरपि करणीयेति वाच्यम्, आम्नायविरुद्धस्य ज्ञापयितुम् अयोग्यत्वात् । अत एव कुलचन्द्रोऽप्याहनकारस्थित्यदर्शनात् समुच्चयार्थो वाशब्दः ।
यद्यप्यनेनैव सिद्धान्तेन आदेशद्वयशङ्का परिहता भवति, तथापि रूपत्रयाभ्युपगमवादेन सिद्धान्तान्तरं प्रदत्तम् इत्याहुः । सूत्रार्थं कुर्वन् लाघवदर्शनार्थत्वात् सिद्धान्तयति सत्यम् इत्यादि । चकारस्य साध्यत्वेन नकारोऽपि स्वस्थित्या अनुविदधातीत्यनुविधायको नकार इत्यर्थः । आदेशस्यैकत्वस्य समर्थितत्वादिति 'शि चं वा' इत्यकरणादिति भावः ॥ ५८ ॥
[समीक्षा]
‘भवान्+ शूरः, कुर्वन् + शूरः, प्रशान् + शयनम्' इस स्थिति में कलापकार के निर्देशानुसार 'न्' को 'न्च्' आदेश, "वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं न वा” (१ | ४ | ३ ) से छकारादेश, "मनोरनुस्वारो घुटि" (२/४/४४) से अनुस्वार, " वर्गे वर्गान्तः” (२/४/४५) से ञकारादेश होने पर 'भवाञ्च्छूरः' शब्द निष्पन्न होता है । "धुटो धुट्येकवर्गे " (कात० परि०, सं० ७६ ) से च् के लोप - पक्ष में भवाञ्छूरः,