________________
२२१
सन्धिप्रकरणे चतुर्थो वर्गपादः [वि० प०]
नोऽन्त० । अनुस्वारः पूर्वो यस्मादसावनुस्वारपूर्वः शकारः । भवांश्छ्यतीति । छो छेदने दिवादेर्यन् । “यन्योकारस्य" (३।६।३६) इत्योकारलोपः । व्यवस्थित० इत्यादि । 'शमु दमु उपशमे' (३।४२) इति प्रशाम्यतीति क्विप् । “पञ्चमोपधाया धुटि चागुणे" (४।१।५५) इति दीर्घत्वम् । “मो नो धातोः" (४।३।७३) इति मकारस्य सस्वरो नकारः । “अस्य च लोपः" (३।६।४९) इत्यकारलोपः । “स्वरादेशः परनिमित्तकः पूर्वविधि प्रति स्थानिवत्" (कात० परि० सू० १०) इति स्थानिवद्भावात् "लिशान्तनकारस्य" (२।३।५६) इति न लोपो न भवति ।
यद्येवम्, अत एव स्थानिवद्भावान्नान्तत्वाभावेऽनुस्वारपूर्व शकारो न भविष्यति, किं व्यवस्थित - वा-स्मरणेनेति ? सत्यम् । अनुस्वारविधौ ‘न पदान्तद्विवचनवर्गान्तानुस्वारः' (कात० परि० सू० ११) इत्यादिना स्थानिवद्भावप्रतिषेधात् प्राप्नोति । ननु शकारस्यापि विधानात् कथमनुस्वारविधिरिति चेत्, नैवम् । नहि शकारविधानम् अनुस्वारविधिं व्याहन्ति, साक्षादनुस्वारस्यापि विधीयमानत्वात् । पदान्तविधिनिबन्धनो वा स्थानिवद्भावप्रतिषेधः स्यादिति व्यवस्थित-वा-स्मरणम् अभिधीयते । एवमुत्तरत्रापीति | 'प्रशान् टीकते, प्रशान् ठकारीयति, प्रशान् तरति, प्रशान् थुडति' । "टठयोः षकारम्, तथयोः सकारम्" (१।४।९,१०) न भवतीत्यर्थः ।
ननु च द्वयोश्चछयोः परयोः पदान्त एव नकारः संभवतीति, अतः पदान्ताधिकारोऽपि निष्फलः । किं पुनरपरेणान्तग्रहणेन कृतमिति । अथ 'वञ्चति, वाञ्छति' इत्यादी अनन्त्यो नकारः संभवतीति चेत्, न । तत्रानुस्वारस्य व्यक्तौ प्रवृत्तत्वात् परत्वादनन्त्य इति विशेषणेन अपवादत्वात् “मनोरनुस्वारो घुटि" (२।४।४४) अनुस्वार एवास्ति बाधकः। अथ 'चिन्ता, श्रन्था' इत्यत्र अनुस्वारस्य "वर्गे वर्गान्त०" (२।४।४५) इति कृते "तथयोः सकारम्" (१।४।१०) इति प्राप्नोति ।
तदयुक्तम् । 'सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव' (काला० परि० ५७) 'कुर्वन्ति, हृष्यन्ति' इत्यादौ व्यक्तिबलादनुस्वारीभूतो नकारो णत्वमतिक्रामति । तथा अनुस्वारपूर्वं शकारमपीति किमन्तग्रहणेन इत्याह - तथान्तो विरतिरिति । तथेत्युत्तरसूत्रे इत्यर्थः । तथान्तो विरतिरवसानमिति पर्यायः । एतदुक्तं भवति - पदान्तत्वप्रतिपादनार्थं नान्तग्रहणमिति, अपि तु पाठकृतविरतिप्रतिपादनार्थम् । तेन 'त्वन्तरसि' इति वर्गे तद्वर्गपञ्चमे सत्यपि पदान्तत्वे नकारपर्यन्ते विरतेरभावात् “तथयोः सकारम्"