________________
२२२
कातन्त्रव्याकरणम्
(१।४।१०) इति न भवतीत्यर्थः । एवं "मोऽनुस्वारं व्यञ्जने" (१।४।१५) इत्यादिष्वपि वेदितव्यमिति ।। ५३।
[क० च०]
नोऽन्त० । नकारस्य मुखनासिकयोरुच्चारितत्वात् शकारोऽपि मुखोच्चारितभागं व्याप्नोति । अतोऽवशिष्टनासिकाभागेनानुस्वार इति । न च नकारस्यानु पश्चान्नासिकायाम् उच्चारितत्वाद् अनुस्वारोऽपि शकारस्य पश्चादेवोच्चार्यते इति वाच्यम् । अनुस्वारपूर्वम् इत्यस्य बहुव्रीहेरिष्टत्वात् "कारिते च संश्चणोः" (३।४।१३) इति निर्देशाच्च ।
वस्तुतस्तु शकारात् परम् अनुस्वारस्योच्चारयितुम् अशक्यत्वात् । अत एव अनुस्वारात् पूर्व इति पञ्चमीतत्पुरुषोऽपि न घटते, तस्माद् बहुव्रीहिरेवेति मनसि कृत्वाह- अनुस्वारः पूर्वो यस्मादिति । व्यवस्थित-वा-स्मरणादिति वृत्तिः। ननु कथम् इदमुच्यते, यावता पूर्वत्र नवाग्रहणमेवास्ति न तु वाग्रहणमिति ? सत्यम् । नवाशब्दस्यैकदेशोऽत्र स्मृत इति को दोषः । यद् वा अर्थपरनिर्देशोऽयम्, तेन वास्मरणं विभाषास्मरणम् इत्यर्थः ।प्रशान् चरतीति । एवमुत्तरत्रापीति वृत्तिः ।अतः “प्रशामष्टठयोर्णः, अश्चछयोः” (कात० परि०-सं० ६०, ६१) इति श्रीपतिसूत्राभ्यां णकारजकारयोविषयत्वात् । यदत्र नकारश्रुतिस्तत्सन्धिस्थानप्रदर्शनार्थं बोध्यम् । साक्षादनुस्वारस्यापि विधीयमानत्वादिति पञ्जी । एतेनानुस्वारप्राप्त्या 'एकयोगनिर्दिष्टानां सह वा प्रवृत्तिः सह बा निवृत्तिः' (द्र०, कलापव्याकरणम्, पृ० २२०) इति न्यायात् शकारोऽपि प्राप्नोतीति कर्तव्यं व्यवस्थितवास्मरणमिति ।
ननु यथा अनुस्वारप्राप्त्या सन्नियोगशिष्टेन शकारस्य प्राप्तिरित्युच्यते, तथा स्थानिवद्भावात् शकारस्याप्राप्त्या अनुस्वारस्याप्राप्तौ व्यर्थमेव व्यवस्थित-वा-स्मरणमिति । नैवम्, 'विधिनियमसंभवे विधिरेव ज्यायान्' (बलाबल० १७) इति । तथाहि स्थानिवद्भावनिषेधद्वारा अनुस्वारस्य प्राप्तिः स्थानिवद्भावेन च शकारस्य प्राप्त्यभावः ! ततश्चानुस्वारद्वारकविधेर्बलवत्त्वात् शकारविधिरेव प्राप्नोति । न तु शकारद्वारकोऽनुस्वाराभावः इति तस्मात् कर्तव्यमेव व्यवस्थित-वा-स्मरणमिति । ननु तथापि व्यवस्थितवा-स्मरणं न क्रियतां "न पदान्त०"(कात० परि० सू०११)इत्यादिना केवलानुस्वारविधावेव स्थानिवद्भावनिषेधः प्रतिपत्तव्यः । अस्य च विशिष्टविधेः स्थानिवद्भावविषयत्वादप्राप्तिरित्याशङ्क्याह-पदान्तविधिनिबन्धनो वा स्थानिवद्भावप्रतिषेधः स्यादिति केचित् ।