________________
२२०
कातन्त्रव्याकरणम्
[दु० टी०]
नोऽन्तः। ननु ह्रस्वोपध इति किमिह न वर्तते ? सत्यम् । डणौ ह्रस्वोपधौ स्वरे द्विः, ततो नः, ततोऽन्तश्चछयोरित्ययोगविभागात् । एकयोगेन हि ह्रस्वोपध इति नस्याविशेषणं पुनर्नकारं कुर्वन् ह्रस्वोपधनिवृत्तिं साधयतीति | व्यवस्थित-वा-स्मरणात् 'प्रशान् चरति' । एवमुत्तरत्रापीति । 'प्रशान् टीकते, प्रशान् ठकारीयति, प्रशान् तरति, प्रशान् थुडति' | नातः परं व्यवस्थितवास्मरणम् । प्रपूर्वात् शमेः क्विप् “मो नो घातोः" (४।६।७३) सस्वर एव नकारोऽस्य च लोपे स्थानिवद्भावात् स्वरादेशस्य नलोपो मा भूत् ।
यद्येवम्, व्यवस्थित-वा-स्मरणमपीह न प्रयोजयति ? सत्यम् । अनुस्वारविधिरेवायमिति “न पदान्तद्विवचनवर्गान्त०" (कात० परि० सू० ११) इत्यादिना स्थानिवद्भावनिषेधः स्यादिति । स्वरान्तस्थानुनासिकपरयोरेव चछयोरिति व्यवस्थितवा-स्मरणेनैव प्रतिपत्तव्यम्, तदप्रयोजनम्, अव्यभिचारात् । तथा "टठयोः षकारम्" (१।४।९) इत्यत्रापि | तथा 'महान् त्सरुः' इत्यत्रापि स्वरान्तस्थापरयोस्तथयोरेव दर्शनात् तथयोः सकारं नापद्यते । 'भवाञ्च् शकारीयति, भवाण्ट षकारीयति' इति प्रयोगविवक्षा चेदस्तु, तर्हि पदान्ताधिकारोऽपीह न प्रयोजयति, अव्यभिचारात् । किमपरेणान्तग्रहणेन ? सत्यम् । अन्तो विरतिरवसानम् इति प्रतिपत्त्यर्थम् । तेन 'त्यन्तरसि' इति “वर्गे तद्वर्गपञ्चमं वा" (१।४।१६) इति सति न भवति ।
नन्वयमपि नकारः शब्दावसाने चेत् पदविभागे समुपलभ्यते, तदेतद् उत्तरार्थं च । तथा चकासाम्बभूव, चकासांबभूवेति "वर्गे तद्वर्गपञ्चमो वा" (१।४।१६) भवत्यनुप्रयोगत्वात्। तथा जङ्गम्यते, जंगम्यते इति । “अतोऽन्तोऽनुस्वारोऽनुनासिकान्तस्य" (३।३।३१) इत्यत्र पुनरन्तग्रहणमवसानार्थमिति वक्ष्यति । ‘गन्ता, यन्ता' इति नात्र विरतेरभिधानमिति । अनुस्वारः पूर्वो यस्मात् सोऽनुस्वारपूर्वः शकारस्तस्मात् पूर्वो यः स्वरः स भाषायां सानुनासिको न दृश्यते इत्यतः सानुनासिको विभाषया नादिश्यते । कानः कानीत्यनुस्वारपूर्वः सकारो वक्तव्यः । कांस्कान् पश्यति, वीप्सायां द्विर्वचनम् । “नृनः पे वा" (कात० परि०, सं० ५०) । नॅ: पाहि, पाहि , नृन् पाहि । वक्तव्यं व्याख्येयम् इति | बहुलत्वाद् अरेफप्रकृतिरपि विसर्गोऽनुस्वारागमोऽपि द्रष्टव्य एव क्वचिदधिकारात् नित्यम् "अनव्ययविसृष्टः०" (२।५।२९) इति सकारः ||५३।