________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०७ क्रियासम्बन्ध एवशब्दोऽत्यन्तायोगमपि व्यवच्छिनत्ति, यथा नीलं सरोजं भवत्येवेति । क्वचित् सरोजे नीलत्वायोगे सत्यपि तत्र नीलत्वस्यात्यन्तायोगो नास्तीति सम्प्रदायविदो वदन्तीत्यस्ति अत्यन्तायोगव्यवच्छेदार्थोऽप्येवशब्दः । यच्चोक्तं पञ्जिकायां तत्तु प्रसिद्धार्था पेक्षया । नव्यास्तु तत्राप्यन्ययोगव्यवच्छेदार्थस्यैव सम्भवः । तथाहि सरोजपदेन योग्यतया इन्दीवरमेव उच्यते, न पुनः पुण्डरीकादि । अत्र च नीलत्वायोग इति किमर्थान्तरपरिकल्पनयेति स्थितम् । ननु स्वयोगव्यवस्थापक इत्यत्र कथं षष्ठीतत्पुरुषः "कर्मण्ययाजकादिभिः" (कात० परि० स० ८९) इत्यनेन तस्य प्रतिषिद्धत्वात् ।
अस्यार्थः- याजकादिभिन्नैरकप्रत्ययान्तैः सह कर्मणि विहितायाः षष्ठ्यास्तत्पुरुषो न भवतीति ? सत्यम् । स्वयोगस्य व्यवस्थापक इति प्रशस्तः पाठ इति विद्यानन्दः । एतत्तु नातिपेशलम्, शैषिक्याः षष्ठ्याः समासे बाधकाभावात् । तथा च तत्रैवोक्तम्'दन्तलेखकः, नखलेखकः' इति शैषिक्याः षष्ठ्याः समास इह भवत्येव । अत एव समासस्यावश्यकत्वाद् भर्तृहरिणापि प्रत्याख्यातमिदमिति | दुर्गसिंहस्यापि मतमेतत् । तथा च कर्मणि षष्ठ्याः समासो भवत्येवेति ब्रूमः। अज्झलाविति | अच्च हल् चेति द्वन्द्वे "व्यञ्जनान्तस्य यत्सुभोः" (२।५।४) इत्यतिदेशबलाच्चकारस्य गत्वं कथं न स्यात्, नैवम् । दृगादिकृदन्त-साहचर्याच्चवर्गस्यापि कृदन्तस्यैव गत्वमिति केचित् ।
वस्तुतस्तु “सिजयतन्याम्"(३।२।२४) इति ज्ञापकात् स्वरूपस्य न भवतीत्यर्थः । वयं तु तत्रान्यथा वक्ष्यामः । षड्ढलानीति | ननु कथमत्र कर्मधारयः "दिक्संख्ये संज्ञायाम्" (पा०२/१/५०) इति व्यावृत्तेः । तथा पूर्वत्र षण्मुखानि' इत्यत्रापि,नैवम् उभयस्योक्तत्वात् । यद् वा षण्णां हलानीति, षण्णां मुखानीति षष्ठीसमास कर्तव्यः । तत्कृतम् इति वृत्तिः । ननु हकारग्रहणाभावे पूर्वसूत्रात् शकारानुवृत्तौ कथमिदं प्रत्युदाहृतम् । नैवम् । यै नुनासिकपरस्यापि शकारस्य छत्वमित्युच्यते ।तन्मते तेभ्योग्रहणस्य प्रयोजनान्तराभावाद् हकारग्रहणाभावे ,शकारनिवृत्तिरेव फलं स्याद्, अतो युक्तं प्रत्युदाहरणम् ।
यद्येवं भवन्मते तेभ्योग्रहणस्य स्वरयवरपरनिवृत्तिफलत्वाद् विशेषणनिवृत्तौ विशेष्यस्य शकारस्यानुवृत्तिः फलं स्यात् ? सत्यम् । यथा भोक्तुकामेषु बहुषु देवदत्तेनात्र भोक्तव्यमित्युक्ते अन्येषां निवृत्तिरभिधीयते, तथेहापि विशेषणनिवृत्तये उपादीयमानं तेभ्योग्रहणं हकारग्रहणे सति परिशिष्टं विशेषणमेव निवर्तयितुं क्षमते, असति च हकारग्रहणे शकारम् अपि निवर्तयतीति कुलचन्द्रः । यद्येवं पदान्ताधिकारस्यापि