________________
२०८
कातन्त्रव्याकरणम्
निवृत्तिः स्यात् ? सत्यम् । “वर्गप्रथमाः०" (१/४/१) इति सूत्रे 'वर्गप्रथमः पदं स्वरघोषवत्सु तृतीयान्' इति कृते तदन्तपरिभाषया पदान्तार्थोऽल्लभ्यते, यदन्तग्रहणं तत् पदान्ताधिकाराविच्छेदार्थम् इति विद्यानन्दः।
तन्न । अन्तग्रहणस्य सुखार्थतया टीकाकृतोक्तत्वात् । तस्मात् तेभ्योग्रहणं पूर्वसूत्रस्थमनुकर्षदपरमपि पूर्वसूत्रस्थमेव निवर्तयति । अन्ताधिकारस्त्वतदीयत्वादनुवर्तते एवेति सिद्धान्तो मन्तव्यः । यद्येवं विकल्पोऽपि निवर्तताम् । तथा च सति अत्र विकल्पार्थमेतन्नवाग्रहणम्, तत्कथमुत्तरत्र विकल्पनिवृत्तये स्यादिति चेत्, न । हकारग्रहणाभावे तेभ्योग्रहणं 'वर्गप्रथमेभ्यः' इति मात्रमनुकर्षत् तेन सह विशेष्यविशेषणभावमापन्नः स्वरयवरपरः शकारः इत्येव निवर्तयतीति क्रियया सह संबद्धं नवाग्रहणमनुवर्तते एव निवर्तकाभावादिति कुलचन्द्रस्याशयः ।
वस्तुतस्तु योगविभागादेवात्र शकारो नानुवर्तते, अन्यथा वर्गप्रथमेभ्यः शकारः पूर्वचतुर्थं छकारं स्वरयवरपर इत्येकयोग एव क्रियताम् । न च वक्तव्यम्-पूर्वचतुर्थत्वं प्रत्यपि स्वरयवरपर इति विशेषणसंबन्धः स्यादिति सन्निहितं छकारं प्रत्येव तस्य सम्बन्धाद् अन्यथा एकविभक्तिं निर्दिशेद् इति युक्तिः । पूर्वग्रहणं किमर्थं 'श्रुतानुमितयोः श्रौतसम्बन्धो विधिर्बलवान्' (काला ० परि०११६) इति, य एव पूर्वश्रुतस्तस्यैव चतुर्थो भविष्यतीति चेत्, प्रतिपत्तिरियं गरीयसीति ।।४९ ।
[समीक्षा]
कलापकार के अनुसार वाक्+ हीनः, अच् + हलौ, षट् + हलानि, तत् + हितम्, ककुप् + हासः' इस स्थिति में हकार से पूर्ववर्ती क्, च्, ट्, त् तथा प् वर्ण पठित हैं । इनके चतुर्थ वर्ण क्रमशः घ्, झ्, द, ध् तथा भू होते हैं । ये ही वर्ण हकार के स्थान में आदेशतः प्रवृत्त हो जाते हैं, जिससे 'वाग्घीनः, अज्झलौ, षड्ढलानि, तद्धितम्, ककुब्भासः' शब्दरूप सिद्ध होते हैं ।
पाणिनि के निर्देशानुसार हकार के स्थान में पूर्वसवर्णा देश प्रवृत्त होता है | सावर्ण्यज्ञान के लिए स्थान तथा प्रयत्नों को मिलाना पड़ता है | आभ्यन्तर प्रयत्नों से कार्यसिद्धि न होने पर बाह्यप्रयत्नों का भी आश्रय लेना पड़ता है। इसीलिए 'वाक्+ हरिः' इस स्थिति में घोषवान्, नादवान्, महाप्राण तथा संवृत प्रयत्न वाले हकार का सवर्ण वर्गीय चतुर्थ वर्ण घ् सिद्ध होता है । फलतः 'वाग्घरिः' प्रयोग निष्पन्न हो पाता है । इसी प्रकार अन्यवर्गीय वर्गों के भी संबन्ध में समझना चाहिए |