________________
२०६
कातन्त्रव्याकरणम्
[वि० प०]
तेभ्यः । वाग्घीन इति वाचा हीन इति विग्रहः । अनन्तरत्वाद् "वर्गप्रथमेभ्यः" (१।४।३) इत्यनुवर्तते, किं तेभ्योग्रहणेन इत्याह - तेभ्यो ग्रहणमित्यादि । अन्यथा एकयोगनिर्दिष्टत्वात् “स्वरयवरपर"-इत्यनुवर्तेत । ततो लानुनासिकपरस्य हकारस्य न स्यादित्यर्थः । ये तु लानुनासिकपरस्यापि शकारस्य छत्वमिच्छन्ति, तेषामनर्थकमेव तेभ्योग्रहणम्, व्यवच्छेद्याभावात् । न हि स्वरयवरपरलानुनासिकपरव्यतिरेकेणान्यपरो हकारः सम्भवति, किं तेन व्यवच्छिद्येत ।
___ वाग् प्लादयतीति। 'लादी सुखे च' (१1३।१२) "घातोश्च हेताविन्" (३।२।१०)। एवशब्दोऽयमव्ययः, अन्ययोगव्यवच्छेदे दृष्टः । यथा - 'पार्थ एव धनुर्धरः' । दृष्टश्च स्वयोगव्यवस्थापने, यथा - 'शङ्खः पाण्डुर एव' । अत्रान्ययोगप्रसङ्गादेव तद्व्यवच्छेदो न घटते, वर्गप्रथमेभ्यो हि हकारः पूर्वचतुर्थमापद्यमानः कथमन्ययोगविषयः । स्वयोगव्यवस्थापकोऽपि न युज्यते, प्रयोजनाभावात् । तत् किमेवग्रहणेनेत्याह - एवेत्यादि । तृतीयादपि भवतीति कस्यचिन्मतम्, तदेवकारेण व्यवच्छिद्यते – 'तेभ्य एव वर्गप्रथमेभ्यो नान्येभ्यः' इत्यर्थः । कथमिति चेत् ? "पदान्ते घुटां प्रथमः" (३।८।१) इति वचनात् प्रथमस्यैव विद्यमानत्वादिति भावः ।।४९ |
[क० च०]
तेभ्यः। एवशब्दोऽयमिति । विधेयात् श्रुत एवशब्दो विशेष्यस्य तदन्ययोगं व्यवच्छिनत्ति । यथा 'शङ्खः पाण्डुर एव' । अत्र शो पाण्डुरत्वान्यस्य नीलत्वादेर्योगो नास्तीत्यर्थः । विशेष्यात् श्रुत एवशब्दो विधेयस्यान्येन योगं व्यवच्छिनत्ति । यथा 'पार्थ एव धनुर्धरः' इति । अत्र विधेयस्य धनुर्धरत्वस्य पार्थभिन्नत्वेन योगो नास्तीति भावः।
यद्येवम्, एवशब्दस्यान्ययोगव्यवच्छेदार्थ एवाङ्गीक्रियताम्, किं स्वयोगव्यवच्छेदकताङ्गीकारेण ? स्वयोगव्यवस्थापक्षेऽपि एवशब्देऽन्ययोगव्यवच्छेदस्य विद्यमानत्वात् । तथाहि पाण्डुरभिन्ने वस्तुनि शङ्खत्वयोगस्य व्यवच्छेदे सति शो पाण्डुरत्वायोगस्यान्याय्यत्वादिति चेन्न । अनुभवबलेनैव एवशब्दार्थस्य व्यवस्थापनात् । नहि 'शङ्खः पाण्डुर एव' इति वाक्ये पाण्डुरभिन्ने वस्तुनि शङ्खत्वायोग इति प्रतीतिः, किन्तर्हि शङ्खः पाण्डुरत्वविशिष्ट एवेति ।