________________
२०२
कातन्त्रव्याकरणम्
नवाधिकारनिवृत्त्यर्थमुपादेयम् इहाधिकारक्रियमाणं नवाग्रहणं नवाधिकार एव नास्तीति बोधयितुमर्हतीति ।।४८।
[वि० प०]
वर्गप्रथमेभ्यः। स्वरयवरपर इति । स्वरयवराः परे यस्मादिति बहुव्रीहिः, न तु स्वरयवरेभ्यः पर इति तत्पुरुषः, असम्भवात् । नहि वर्गप्रथमेभ्यः शकारः स्वरयवरेभ्योऽपि परः सम्भवतीति । तर्हि स्वरयवरेष्विति कथं न कृतं चेत् ? सत्यम् । परग्रहणं श्रुतिसुखार्थम् एव । तच्छ्वेतमिति छकारे कृते "पररूपं तकारो लचटवर्गेषु" (१।४।५) इति तकारस्यापि छकारे "अघोषे प्रथमः" (२।३।६१) इति चकारः । ___ पक्षे तकारस्य "चं शे" (१।४।६) इति चकारः । प्राङ् शेते इति । प्राञ्चतीति क्विप् । “अन्चेरलोपः पूर्वस्य च दीर्घः" (२।२।४९) इति ज्ञापकात् । क्वावनुषङ्गलोपो नास्तीति प्रान्च् इति स्थिते "चवर्गदृगादीनांच"(२।३।४८) इति वर्गग्रहणबलान्नित्यमपि संयोगान्तलोपं बाधित्वा अन्चियुजिक्रुञ्चां प्रागेव गत्वमिति वक्ष्यति । ततोऽनुस्वारस्य वर्गे वर्गान्तत्वे कृते पश्चाद् विरामे संयोगान्तलोप इति |
नवाग्रहणमिह पूर्वसूत्रादनुवर्तिष्यते । भूयः किं नवाग्रहणेनेति चेत् ? सत्यम् । उत्तरसूत्रे वाधिकारनिवृत्त्यर्थमेव नवाग्रहणमवश्यं कार्यम् । ततश्च 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला० परि० ७८) इति नित्यप्राप्ते विकल्पार्थं नवाग्रहणमिति ।।४८।
[क० च०]
वर्गप्रथमेभ्यः। ननु 'वर्गप्रथमाः' इत्यनुवर्तते, तच्च प्रथमान्तमप्यर्थवशात् पञ्चम्यन्ततयाऽनुवर्तिष्यते किं वर्गप्रथमेभ्यः इत्यनेन । नच तदा पदान्तः शकारः इति सम्बन्धे विपाशो नद्या इदं वैपाशम्, विपाशि भवा मत्स्या वैपाश्या इत्यत्र छत्वं कथं न स्यादिति वाच्यम्, वकाररेफयोरभावात् । यत्तु विपाड्वरः, विपाड्राजः इत्यत्र डत्वमेवास्ति बाधकमिति ? सत्यम् । एवं हि सुखार्थम् । तच्छ्वेतम् इति | ननु छकारे परे तकारस्य पररूपे कृते 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (कात० परि० वृ० २७) इति न्यायात् पुनश्छकाराभावः कथन्न स्यात् ? नैवम् । न वर्णाश्रये निमित्ताभावप्रतिषेधादिति कुलचन्द्रः।
वस्तुतस्तु नेदं न्यायान्तरमादरणीयं सन्निपातन्यायेनैवास्य सिद्धेः वर्णग्रहणे निमित्तत्वात् । ननु छकारे परे तकारस्य पररूपमेव न प्राप्नोति ‘असिद्धं बहिरङ्गमन्तरङ्गे'