________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०१
[रूपसिद्धि]
१- २. वाङ्मती - वाग्मती । वाक् + मती । प्रकृत सूत्र से क् को तृतीय वर्ण तथा पञ्चम वर्ण आदेश । ङ्
ग्
३ - ४ . षण्मुखानि - षड्मुखानि । षट् + मुखानि । प्रकृत सूत्र द्वारा टू को तृतीय वर्ण ड् तथा पञ्चम वर्ण ण् आदेश |
५-६ . तन्नयनम् - तद्नयनम् । तत् + नयनम् । प्रकृत सूत्र से तू को तृतीय वर्ण द् तथा पञ्चम वर्ण न् आदेश ।
७- ८. त्रिष्टुम्मिनोति - त्रिष्टुमिनोति । त्रिष्टुप् + मिनोति । प्रकृत सूत्र - द्वारा प् को तृतीय वर्ण ब् तथा पञ्चम वर्ण म् आदेश || ४७ |
४८. वर्गप्रथमेभ्यः शकारः स्वरयवरपरश्छकारं नवा ( १ | ४ | ३ )
[ सूत्रार्थ]
पदान्तस्थ वर्गीय प्रथम वर्णों से परवर्ती शकार के स्थान में छकारादेश विकल्प से होता है, यदि उस शकार के बाद में स्वर-य-व-र में से कोई वर्ण हो तो ।। ४८ ।
[दु० बृ०]
वर्गप्रथमेभ्यः पदान्तेभ्यः परः शकारः स्वर-य-व-र-परश्छकारमापद्यते न वा । वाक्छूरः, वाक्शूरः । षट्छ्यामाः, षट् श्यामाः । तच्छ्वेतम्, तच्श्वेतम् । त्रिष्टुप् छुतम्, त्रिष्टुप्श्रुतम् । वर्गप्रथमेभ्यः इति किम् ? प्राङ् शेते । स्वर-य-व-रपर इति किम् ? वाक्श्लक्ष्णः, तच्श्मशानम् । लानुनासिकेष्वपीच्छन्त्यन्ये ॥ ४८ ॥
[दु० टी०]
वर्गप्रथमेभ्यः। नन्वर्थवशात् पञ्चमान्त इह वर्गप्रथम इत्येवानुवर्तिष्यते, तत् किमर्थं वर्गप्रथमेभ्य इति चेत्, शकारः पदान्त इति सम्बन्धः स्यात् । चेत् तदा विपाश इदं वैपाशम्, विपाशि भवो मत्स्यो वैपाश्यः इति छत्वमापद्यते । नैवम्, रेफवकारयोरसम्भवात् ? सत्यम् | अर्थवशात् प्रतिपत्तिरियं गरीयसीति वचनमिदम् | स्वरयवरा एव परेऽस्मादिति बहुव्रीहिर्नतु स्वरयवरेभ्यः पर इति, अनुपपत्तेः । येषां लानुनासिकेष्वपि मतमिति ते प्रत्युदाहरन्ति-तच् श्च्योततीति । सप्तम्यापि सिध्यति । परग्रहणं श्रुतिसुखार्थम्, स्वरूपार्थः कारशब्दो वर्णेभ्यः प्रयुज्यते । वक्ष्यमाणं हि नवाग्रहणम् उत्तरत्र