________________
२००
कातन्त्रव्याकरणम्
आदौ चतुर्थो यस्य । पुनः कीदृशस्य ? कृतस्य । ननु केनायमेतादृशः कृतः इत्याह - "हचतुर्थान्तस्य' (२।३ । ५०) इत्यादिना ।
ननु कथमत्रास्य विषय इत्याह - "व्यञ्जनान्तस्य" (२।५।४) इति । एतादृशस्य धकारस्य पदान्ते धुटां प्रथमे सति इहापि पञ्चमो भविष्यतीति विद्यानन्दः । तन्न | यथाश्रुतसम्भवेऽन्यथाकल्पनाया अन्याय्यत्वात् । तथाहि "व्यञ्जनान्तस्य यत्सुभोः" (२।५।४) इत्यनेन हचतुर्थान्तस्येत्यादिवचनविहितस्यातिदेशादिह समासेऽप्यादिचतुर्थो भवतीत्यर्थः । यद् वा समीपलक्षणेयं षष्ठी । कृतस्यादिचतुर्थस्य समीपे प्रथमो भवतीत्यर्थः । व्यवस्थितविभाषयेत्यादि । ननु कथं व्यवस्थितविभाषेयमुच्यते, तृतीयग्रहणबलादुभयोरपि विकल्पः कथन्न स्यात् ? सत्यम् |तृतीयानिति भिन्नविभक्तिनिर्देशात् । प्रत्यय इति । प्रत्ययपञ्चमे तृतीयो न व्यवस्थितः इति न वर्तते इति भावः । तेन प्रत्ययपञ्चमे चेति नित्यार्थं न वक्तव्यम् । ननु स्थितेऽपि तृतीयग्रहणे व्यवस्थितविभाषया वाग्मीति कथं प्रत्ययपञ्चमे नित्यं पञ्चमः । प्रशंसायां "वाचो ग्मिन्" इति प्रत्यये गकार उच्चारणार्थ इति तस्मात् तृतीयग्रहणं न क्रियताम् । यथाभिधानमेवाश्रय इत्याह - यदीति ।। ४७।
[समीक्षा]
कलापकार ने 'वाक्+ मती' तथा 'तत् + नयनम्' इस अवस्था में क् के स्थान में ग् तथा ङ् आदेश करके 'वाग्मती-वाङ्मती' एवं त् के स्थान में द्-न् आदेश करके 'तद्नयनम्-तन्नयनम्' शब्दरूप सिद्ध किए हैं। पाणिनि ने वैकल्पिक अनुनासिक-विधान से इन रूपों का साधुत्व बताया है – “यसेऽनुनासिकेऽनुनासिको वा" (अ० ८।४।४५) । पाणिनि का संज्ञापूर्वक यह निर्देश सुखार्थ माना जाता है । 'अनुनासिक' एक महती संज्ञा है, जिससे उसकी अन्वर्थता सिद्ध होती है । फलतः वर्गीय पञ्चम वर्गों का स्थान कण्ठादि तथा नासिका भी सिद्ध होता है । सूत्रनिर्देश के अनुसार यर्-प्रत्याहार तथा अनुनासिकसंज्ञा के अर्थावगम-हेतु अवश्य ही कुछ अतिरिक्त प्रयत्न करना पड़ता है, जिससे पाणिनीय निर्देश गौरवाधायक कहा जा सकता है।
१. वाचो ग्मिनिः (पा० ५!२।१२४) ।