________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
ननु पञ्चम एव पक्षे विधीयताम् । तृतीयस्तु पूर्वेणैव सिद्ध:, किं तृतीयग्रहणेन ? सत्यम् | नवेति व्यवस्थितविभाषेयं वेदितव्या । सा च सन्निहितस्यैव तृतीयस्य यथा स्यादित्याह – ब्यवस्थितेत्यादि । तेन प्रत्ययपञ्चमे तृतीयो न भवत्येव । यदि पुनर्यथाभिधानमेव व्यवस्थितविभाषेत्यभिधीयते तदा सुखार्थमेव तृतीयग्रहणम् । वाङ्मयमिति वाच्यम् । विकारोऽवयवो वा इति " एकस्वरान्नित्यम्" इति तमादिनिपातनाद् मयट् । यथा यत्तदेतद्भ्यः ‘अस्य परिमाणम्' इत्यर्थे मात्रट्-वन्तुप्रत्ययौ भवतः । यत्परिमाणमस्येति यन्मात्रम् ||४७ |
[क० च०]
पञ्चमे ० ० । ननु " पञ्चमे तांस्तृतीयान्नवेति" सिद्धे किं 'पञ्चम' -ग्रहणेन, सत्यम् । सुखार्थम् । वाङ्मतीति । ननु किमर्थमिह " व्यञ्जनान्तस्य यत्सुभोः " ( २/५/४) इत्यतिदेशबलाद् गत्वमुच्यते । प्रत्ययलोपलक्षणन्यायेन गत्वं सिद्धमेव । नैवम् | 'न वर्णाश्रये प्रत्ययलोपलक्षणम्" इति । अथ तथापि " असिद्धं बहिरङ्गमन्तरङ्गे' (कात० परि० सू० ३५) इति न्यायाद् अन्तरङ्गे नैमित्तिकाभावे कर्तव्ये समासाश्रितो निमित्ताभावोऽसिद्धः स्यात् ततश्च गकारोऽस्त्येव, अलं तदर्थातिदेशाश्रयणेनैव ? नैवम् । “ तत्स्था लोप्या विभक्तयः” (२।५।२) इत्यत्र बहुवचनबलाद् विभक्तिभिन्नस्य कार्यस्य लोपः कथन्न स्यात् ? सखेतिवदिति । नैवम् । अभिधानाद् असिद्धवद्भावस्यापि बाधेति । क्वचिन्निमित्ताभावविषये नासिद्धवद्भाव इति । ननु तथापि मकारे ककारस्य पञ्चमो भवति, श्रुतत्वान्मकार एव स्यात् । नैवम् । " स्थानेऽन्तरतमः " ( काला० परि० २४ ) इति न्यायात् ।
१९९
तन्नयनम् इति । नन्वत्र तकारस्य नकारे कृते " लिङ्गान्तनकारस्य ' (२ | ३ |५६) इत्यनेन लोपः कथं न स्यात् सखेतिवदिति ? नैवम् । “असिद्धं बहिरङ्गमन्तरङ्गे” (कात० परि० सू० ३५) इति न्यायान्नकारलोपोऽन्तरङ्गः एकपदाश्रितत्वात् सन्निपातन्यायादिति वा । तथाहि - सन्निपातः सन्निकर्षः संनिहितता नकारसंनिकर्षे उत्पन्नो यो नकारः स तेन निमित्तनकारेण सह संनिकर्षविघाताय निमित्तं न भवति, वर्णग्रहणे निमित्तत्वादिति चेत्, अनित्येयं परिभाषेति व्याख्यायते । " हचतुर्थान्तस्य " ( २/३ | ५० ) इति प्रथमं धकारस्य चतुर्थो भवति । धकारमेव विशेषयति । धकारस्य कीदृशस्य ? आदिचतुर्थस्य ।
१.
वर्णाश्रये नास्ति प्रत्ययलक्षणम् - व्या० परि० पा० ९६ ।