________________
१९८
कातन्त्रव्याकरणम्
[दु० ०
वर्गप्रथमाः पदान्ताः पञ्चमे परे पञ्चमानापद्यन्ते तृतीयान् नवा | वाङ्मती, वाग्मती। षण्मुखानि, षड्मुखानि । तन्नयनम्, तद्नयनम् । त्रिष्टुम्मिनोति, त्रिष्टुड्मिनोति । पदान्ते धुटां प्रथमे सति - दृशन्नयनम्, ज्ञानभुन्नाथो वा । व्यवस्थितविभाषया प्रत्ययपञ्चमे नित्यं पञ्चमो भाषायाम् । वाङ्मयम्, यन्मात्रम् ।। ४७।
[दु० टी०]
पञ्चमे० । नित्यं तृतीयः प्राप्तः पक्षे पञ्चमो विधीयते । तर्हि तृतीयग्रहणं किमर्थम् ? सत्यम् | सन्निहितस्य तृतीयस्यैव व्यवस्थितविभाषार्थं तेन प्रत्ययपञ्चमे पञ्चमो भाषायाम्, तृतीयो न भवति । अथाव्ययत्वाद् व्यवस्थितविभाषा यथाभिधानमिति चेत् तदा प्रपञ्चार्थमेव वाच्यम् । विकारोऽवयवो वा इत्येकस्वरान्नित्यं मयट् । यत्तदेतद्भ्योऽस्य परिमाणमित्यर्थे मात्र प्रत्ययस्तमादिनिपातनात् । “अनुनासिकेऽनुनासिको वा" इति केषांचिद् दर्शनम् । स्वरा अपि अन्तस्था अपि रेफवर्जिता अनुनासिका इति । वाँङ् इति, वाँग् इति, तँनु इति, तेंदु इति, तन् याता, तन् वाता' तदलम् । न भाषायाम् ।।४७।
[वि० प०]
पञ्चमे० । वाङ्मतीति | वाक् च मतिश्चेति विग्रहः । "व्यञ्जनान्तस्य यत्सुभोः" (२।५।४) इत्यतिदेशबलात् "चवर्गदृगादीनां च" (२।३।४८) इति गत्वम् । “पदान्ते धुटां प्रथमः" (३।८।१) इति कत्वम् । तन्नयनमिति । तदिति नपुंसकलक्षणः सेर्लोपः । "विरामव्यञ्जनादौ०" (२।३।६४) इत्यादिना विरामकार्यम्, पूर्ववत् प्रथमः । ननु “वा विरामे" (२।३।६२) इत्यादेरविषयत्वात् कथं समासे प्रथमत्वमित्याह - पदान्त इत्यादि । दृशदां नयनं दृशन्नयनम्, दृशद्नयनम् । ज्ञानं बुध्यते इति क्विप्, तस्य लोपः । ज्ञानबुधां नाथ इति विग्रहे "हचतुर्थान्तस्य०" (२।३।५०) इत्यादिना कृतस्यादिचतुर्थस्य "व्यञ्जनान्तस्य यत्सुभोः” (२।५।४) इत्यतिदेशबलादिहापि भवति | वाशब्देन विकल्पः सूच्यते-दृशद्नयनम् । ज्ञानभुन्नाथ इति । एतदुपलक्षणम् । वाङ्मतीत्यादावपि अविरामत्वात् "पदान्ते घुटां प्रथमः" (३।८।१) इत्यनेनैव प्रथमत्वम् ।
१.
अत्रानुनासिकः पूर्वस्य तु वा (पा० ८।३।२)।