________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
२०३ (काला० परि० ४२) इति न्यायात् । अतः परत्वात् तकारस्य शकारे चकारप्रवृत्तौ सिद्धमिति वक्तुं युक्तम् । न च छकारमपेक्ष्य पररूपस्यान्तरङ्गत्वमेव नास्ति । नहीह एका प्रकृतिः येन 'प्रकृतेः पूर्वं पूर्व स्यादन्तरङ्गम्' (बलाबल० ४) इत्यस्य विषयः स्यात् । अतश्छकारस्य कृताकृतप्रसङ्गित्वेन नित्यत्वात् शकारस्याग्रतश्छकारः स्यादिति वाच्यम्, पूर्वत्वे वाक्यार्थस्यान्तरङ्गत्वादग्रतश्छकारस्याप्राप्तेः । (चेन्न, भिन्नप्रकृतावप्यन्तरङ्गत्वेन पूर्वकार्यस्य दृष्टत्वात्) । कथमन्यथा “सम्प्रसारणं वृतोऽन्तस्थानिमित्ताः" (३।८।३३) इत्यत्र इकारश्चेति द्वन्द्वेऽन्तरङ्गत्वात् प्राग् यत्वे पश्चाद् वत्वमिति । अन्यथा यदि भिन्नप्रकृतावन्तरङ्गत्वं नोच्यते तदा ऋकारे परे उकारस्य प्रागेव वत्वे यत्वाभावात् कथं 'वृतः' इति निर्देशः ? सत्यम् । प्रयोगान्यथानुपपत्त्या असिद्धवद्भावस्यानित्यत्वमभ्युपगन्तव्यमिति महान्तः।
वयं तु 'इश्च उश्च ऋश्च' इति पाठक्रमादेव सिद्धिः । नन्वन्तरङ्गचिन्तया कथं 'तश्वेतम्' इत्यत्र भिन्नप्रकृतावसिद्धवद्भावस्य विषयः इति ब्रूमः । तथा च सति अच्छत्वपक्षे वचनमिदमिति संगच्छते । अन्यथा छत्वपक्षेऽपि चरितार्थमेतत् सूत्रं भवत् कथमच्छत्वलक्षणं स्यादिति ? सत्यमिति । ननु यदि विकल्पनिवृत्त्यर्थम् उत्तरत्र नवाग्रहणम्, तदा कथम् ‘उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला० परि० ७८) इति नित्यार्थं स्यात् । एतावतैव तस्य कृतार्थत्वादिति चेत्, सत्यम् । किन्तु नियामकाभावात् तत उत्तरत्र विकल्पनिवृत्त्यर्थम्, उतस्विद् 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला० परि० ७८) इति पूर्वत्र नियमार्थं वेति शङ्कानिरासार्थमिह नवाग्रहणमिति । यद्येवम् उभयत्र नवाग्रहणम् अपास्य परसूत्रे नित्यग्रहणं क्रियतां चेद्, आस्तां तावद् अयं सुहृदुपदेशः । यथा सन्निवेशे तु न वैयर्थ्यमिति नवीनाः । यद् वा 'उभयोर्विभाषयोर्मध्ये यो विधिः स नित्यः' (काला० परि० ७८) इति ज्ञापनार्थं 'नवा'ग्रहणं देयमिति सम्प्रदायः।।४८।
[समीक्षा]
पाणिनि का एतद्विषयक सूत्र है - "शश्छोऽटि" (८/४।६३)। इसके अनुसार पदान्तस्थ झय् से परवर्ती शकार के स्थान में छकारादेश होता है यदि अट् प्रत्याहार पर में हो तो । ज्ञातव्य है कि पाणिनि के अनुसार 'झय' प्रत्याहार में वर्गीय प्रथम-द्वितीय-तृतीय तथा चतुर्थ वर्ण (कुल २० वर्ण) सम्मिलित होते हैं, परन्तु 'तच्छिवः' रूप की सिद्धि के लिए प्रायः 'तद् + शिवः'-स्थिति में श्चुत्व से द् के स्थान में ज्