________________
१९६
कातन्त्रव्याकरणम्
सं०६०,६१) इत्येताभ्यां श्रीपतिसूत्राभ्यां णकार - अकारयोर्विषयत्वाच्च । भवाँल्लुनाति, भवांश्चरति, भवांष्टीकते' इत्यादिषु "ले लम्, नोऽन्तश्चछयोःशकारम्"(१।४।११,८) इत्यादयो योगा एव बाधकाः सन्ति । तस्मात् “पदान्ते धुटां प्रथमः" (३।८।१) इत्यपि न कर्तव्यम् ।
अत्र घोषवदग्रहणं च न क्रियताम् ? सत्यम, द्वयमेव मन्दधियां हेमकरादीनां सुखार्थमिति । तथाह हेमकरः – “ननु धुटः पदान्ताः स्वरे तृतीयान्” इति क्रियताम्, किमर्थमनेन घोषवद्ग्रहणेन, तर्हि कथं तद्गच्छतीत्यादौ तृतीयः, परत्वात् “पदान्ते धुटां प्रथमः" (३।८।१) इत्यस्यैव विषयत्वादिति चेत् तदपि न कर्तव्यम्, तर्हि कथं षट् कुर्वन्तीति चेदघोषे प्रथमो भविष्यति । तद्गच्छतीत्यत्र धुटां तृतीयो भविष्यति । नैवम्, अत्र घोषवद्ग्रहणाभावेऽपि “पदान्ते धुटां प्रथमः" (३।८।१) इत्यस्याभावे च “अघोषे प्रथमः, धुटां तृतीयः" इति सूत्रद्वयं बाधित्वा अवयवकृतविराममाश्रित्य परत्वाद् "वा विरामे" (२।३।६२) इत्यादिना प्रथमतृतीयौ स्याताम् । ततश्च षड् गच्छन्तीत्यादौ पक्षे टकारश्रुतिरपि स्यात् । तथाघोषे च परे षट् कुर्वन्तीति डकारश्रुतिरपि स्यात् । स्थितिपक्षेऽपि घोषवद्ग्रहणं "पदान्ते धुटां प्रथमः" (३।८।१) इति वचनाच्च "वा विरामे" (२।३।६२) इत्यस्य महाविरामविषयत्वात् तस्माद् "वा विरामे" (२।३।६२) इत्यस्यावयवविरामविषयबाधनार्थं घोषवद्ग्रहणम् "पदान्ते धुटां प्रथमः" (३।८।१) इत्यपि कर्तव्यमेवेति । तन्न, मन्दधियां प्रलापस्याग्राह्यत्वादिति । तथाहि "वा विरामे" (२।३।६२) इत्यनेन कृतयोरपि प्रथमतृतीययोः पुनरपि घोषवदघोषयोस्तृतीयप्रथमौ भविष्यत इति ।
___ नच पुनरपि प्रथमतृतीयौ स्यातामिति वाच्यम्, प्राक् प्रवृत्त्यैव कृतार्थस्य विधेरनवस्थाभयेन पुनरप्रसङ्गात् । अन्यथा सिद्धे शास्त्रेऽपि प्रथमपक्षेऽपि तृतीयः, तृतीयपक्षेऽपि प्रथम इति वर्षसहस्रेणापि न निवर्तताम् । न च परत्वात् “दा विरामे" (२।३।६२) इति प्रवृत्ते सति नान्यस्य प्रवृत्तिः, सकृद्गतन्यायेनेति वाच्यम्, तस्य प्रायिकत्वात् । प्रायिकत्वं न संगच्छते इति चेत्, अन्यद् उच्यते - विरामोऽवसानं परिसमाप्तिः परस्मिन् वर्णात्यन्ताभाव इति यावद् इति न्यासकारादिभिरुक्तम् । अथैतादृशे सत्यपि विरामेऽवयवविराम आश्रीयते इति चेद् अहो रे पाण्डित्यम् इष्टसाधनार्थं खल्वाश्रीयते न त्वनिष्टसाधनार्थमिति, तस्माद् घोषवद्ग्रहणं सुखार्थमिति दिक् ।।४६।।