________________
सन्धिप्रकरणे चतुर्थो वर्गपादः
१९५ अथ परत्वं कथं संगच्छते, उभयोः सावकाशत्वाभावादिति चेत्, न । पदमध्ये घोषवति परे ‘मज्जति' इत्यादौ "धुटां तृतीयः” (२।३।६०) इत्यस्य चरितार्थता | अघोषे तु 'षट् कुर्वन्ति' इत्यादौ “पदान्ते धुटां प्रथमः" (३।८।१) इत्यस्य चरितार्थताऽस्त्येवेति । अत उभयोः सावकाशत्वेन परत्वम् इति । न च तद् गच्छतीत्यादौ "पदान्ते धुटां तृतीयः" (२।३।६०) एव भविष्यतीति तस्य सामान्यघोषवद्विषयत्वेन "पदान्ते धुटां प्रथमः" (३।८।१) इति कृते पुनछुटां तृतीयो भविष्यतीति वाच्यम्, 'सकृद्गतौ०' (कात० परि० सू० ३८) इति न्यायादनवस्थाप्रसङ्गाच्च । तस्मात् तद् गच्छतीत्यादौ “पदान्ते धुटां प्रथमः" (३1८।१) इत्यस्य बाधनार्थमत्र घोषवद्ग्रहणं कर्तव्यमेव ।
ननु तथाप्यत्र घोषवद्ग्रहणं न क्रियताम्, तद् गच्छतीत्यादौ धुटां तृतीय एव भविष्यतीति तस्य सामान्यघोषवद्विषयत्वेन “पदान्ते धुटां प्रथमः" (३।८।१) इत्यस्य बाधकत्वात् । अथ तस्य सामान्यघोषवद्विषयत्वमेव कुत इति चेद् उच्यते "इसुस्दोषां घोषवति रः" (२।३।५९) इत्यत्र घोषवद्ग्रहणमपनीय "भे रः" इति सिद्धे यत् तत्र घोषवद्ग्रहणं तद् धुटां तृतीय इत्यत्र सामान्यघोषवत्प्रतिपत्त्यर्थमिति वक्ष्यति इति चेत्, नैवम् । सामान्यघोषवद्ग्रहणस्यैतदेव फलम् – 'मज्जति-भृज्जति' इत्यादौ तृतीयः । अन्यथा योषिद्भ्यामित्यादावेव तृतीयः प्राप्नोति । तत् कथं "पदान्ते धुटां प्रथमः" (३।८।१) इति बाधित्वा तद् गच्छतीत्यादौ धुटां तृतीयो भविष्यति । तस्माद् घोषवदग्रहणमत्र कर्तव्यमेव । एवं तर्हि 'पदान्ते धुटां प्रथमः' (३1८1१) इत्यपि न कार्यम् । 'षट् कुर्वन्ति' इत्यादौ तु अघोषे प्रथमो भविष्यति । अथैवं सति ज्ञानभुन्नाथो वेति न सिध्यति, धकारस्य प्रथमाभावात्, पञ्चमे पञ्चमस्याप्राप्तिरिति चेत्, न । "वर्गप्रथमा०" (१।४।१) इत्यत्र वर्गग्रहणमपनीय धुट् इति कार्यम्, ततश्च “पञ्चमे पञ्चमान्” (१।४।२) इत्यत्र धुटोऽनुवर्तनाद् धकारस्य पञ्चमे कृते 'ज्ञानभुन्नाथः' इत्यस्य सिद्धत्वात् ।
अथ यदि "पदान्ते धुटां प्रथमः" (३।८।१) इति न क्रियते । कथं तर्हि, 'तद्धीनः' इत्यादौ तच्छब्दस्य पदान्तत्वात् तेभ्य एव इत्यादिना हकारस्य धकारः स्यात् ? चेत्, सत्यम् । तेभ्य एव' इत्यत्र तेभ्यो- ग्रहणमपनीय वर्गेभ्य इति कर्तव्यम् । तथा “पररूपं तकारः" (१।४।५) इत्यत्र च तल्लुनातीति सिद्ध्यर्थं तवर्गग्रहणं कर्तव्यम् । ननु तर्हि 'प्रशान् चरति, प्रशान् टीकते' इत्यत्र च नकारस्य पररूपं स्यात् । नैवम्, अनुवृत्तेन धुटा वर्गविशेषणात् । “प्रशामष्टठयोर्णः, अश्चछयोः" (कात० परि०,