________________
१९४
कातन्त्रव्याकरणम्
स्पष्टार्थम् । ननु तडितां गतिस्तडिद्गतिरिति यथान्तर्वर्तिनीं विभक्तिमाश्रित्य पदसंज्ञास्तीति यथा तृतीयस्तथा तडित इदं ताडितम्, तडिति साधुस्तडित्य इत्यत्र कथं स्यात् ? सत्यम् | अन्तर्वर्तिन्या विभक्तेराश्रयणं नानिष्टसिद्ध्यर्थम्, न च तद्धितस्वरे “ये च” (३।४।३८) तृतीय इष्ट इति । ननु ' होतृकारः, उपेकीयति' इति पूर्वलोपे कथं तृतीयो न स्यात् । नैवम् " असिद्धं बहिरङ्गमन्तरङ्गे” (कात० परि० सू० ३५ ) इति न्यायात् । तृतीयोऽपीह स्थानिन आनन्तर्यादेव || ४६ |
[वि० प० ]
वर्गप्रथमाः | वागत्रेति | वच भाषणे, " क्विब् बचिप्रच्छिश्रिदुश्रुश्रुपुज्वां दीर्घश्च" इति क्विप्, दीर्घश्च । वाच् इति स्थिते " व्यञ्जनाच्च" (४|५|९९) इति सिलोपः । “चवर्गदृगादीनां च” (२।३।४८) इति गत्वम्, “वा विरामे " ( २।३ । ६२) इति प्रथमतृतीयौ भवतः । ततश्च स्वरघोषवत्सु “ पदान्ते धुटां प्रथमः " ( ३।८।१) इति कत्वम्, अनेन तृतीयः । षड् गच्छन्तीति । षष् + जस् “कतेश्च जश्शसोर्लुक्” (२।१।७६) "हशषछान्तेजादीनाण्डः " ( २ | ३ | ४६), "वा विरामे " ( २/३/६२) इति कृते पूर्ववत् प्रथमे सति अनेन तृतीयत्वम् । “ लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यै ग्रहणम्” (काला० परि० १०२ ) इति नाशङ्कनीयम् । इह वर्गग्रहणस्य लाक्षणिकस्यापि परिग्रहार्थत्वात् ! अन्यथा प्रथमादयो हि वर्गाणामेव धर्माः, किं वर्गग्रहणेनेति ? शकनीयमिति शके: “तव्यानीयौ " (४।२।९) इति अनीयः || ४६ |
[क० च०]
वर्ग० । ननु किमर्थमत्र घोषवद्ग्रहणं घोषवति पदमध्ये पदान्ते च "धुटां तृतीय:” (२।३।६०) इत्यनेनैव सिद्धत्वात् । अत्र स्थिते हि घोषवद्ग्रहणे "धुटां तृतीयः” (२।३।६०) इत्यस्य पदमध्ये विषयत्वमिति । अथात्र घोषवद्ग्रहणं “धुटां तृतीयः” (२ । ३।६०) इत्यस्य पदान्ते वृत्त्यभावं ज्ञापयिष्यति । अतस्तेभ्यो गतः, तपोरतः इत्यादौ पदान्तत्वात् तृतीयाभावे सति सकारस्य " रेफसोर्विसर्जनीयः " (२ | ३ | ६३) सिद्धः इति चेत्, न । परत्वे विसर्जनीयस्य विषयत्वात् किं तदर्थं घोषवदग्रहणेनेति, नैवम् अत्र घोषवद्ग्रहणाभावे तद् गच्छतीत्यादौ परत्वात् " पदान्ते घुटां प्रथमः " ( ३ | ८ |१ ) इत्येव प्राप्नोति ।
१.
तु० - क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणां दीर्घोऽसम्प्रसारणं च (पा० ३।२।१७८-वा० ) ।