________________
१९३
अथ प्रथमे सन्धिप्रकरणे चतुर्थो वर्गपादः ४६. वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् (१।४।१) [सूत्रार्थ]
स्वर तथा घोषसंज्ञक वर्गों के परवर्ती होने पर पदान्त में वर्तमान वर्गीय प्रथम वर्गों के स्थान में तृतीय वर्ण हो जाते हैं ।।४६।
[दु० वृ०]
वर्गप्रथमाः पदान्ताः स्वरघोषवत्सु तृतीयान् आपद्यन्ते । वागत्र । षड् गच्छन्ति । वर्गप्रथमा इति किम् ? भवानाह | पदान्ता इति किम् ? शकनीयम् । स्वरघोषवस्विति किम् ? वाक् पूताः, षट् कुर्वन्ति ।।४६।
[दु० टी०]
वर्ग० | प्रथमादयो हि वर्गाणामेव धर्माः इति प्रतिपादितमेव । तर्हि वर्गग्रहणमिह लाक्षणिकस्यापि वर्गस्य परिग्रहार्थम् । अन्यथा “क्विब्वचिपच्छि०" (पा० ३।२।१७४) इत्यादिना क्विपि दीर्घोऽसंप्रसारणं चेति वाच् । ततो "व्यञ्जनाच्च" (४।५।९९) इति सिलोपे कृते "चवर्गदृगादीनां च" (२।३।४८) इति गत्वे "वा विरामे" (२।३।६२) इति प्रथमे सति तृतीयो न स्यात् । तथा षषः "संख्यायाः ष्णान्तायाः" (२।१।७५) इति जसो लुकि "हशषछान्तेजादीनां डः" (२।३।४६) इति डत्वे, “वा विरामे" (२।३।६२) प्रथमे सति तृतीयो न स्यात् । तर्हि कथम् ‘अतिरि कुलम्', 'अतिनु उदकम्' इत्यादिषु दीर्घादिविधिरिति । यथतेषु लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति न दृश्यते, तथेहापि । तर्हि सुखप्रतिपत्त्यर्थमेवेदम् । ___यदि वर्गप्रथमेन पदं विशेष्यते, तदान्तग्रहणमपि तथैव । ननु घोषवद्ग्रहणं किमर्थं "धुटां तृतीयो घोषवति" (२।३।६०) सामान्ये विद्यते एव, परत्वाद् विरामाश्रितत्वाच्च । 'तेभ्यो गतः, तपोरतः' इति सकारस्य विसर्जनीय एव । एवं तर्हि परत्वात् पदान्ते धुटां प्रथमो भवितुमर्हति, 'मज्जति, भृज्जति' इति सामान्यव्याख्यानविषयत्वात् तर्हि धुड्ग्रहणमिह कर्तुमुचितम् ? सत्यम् । परिशिष्टं वर्गप्रथमग्रहणं च