________________
सन्धिप्रकरणे तृतीयः ओदन्तपादः लोकोपचारात् प्रतिनियतप्रयोगविषया इत्याह - दूराकाने इत्यादि । किं च नाटकेष्वप्युपलभ्यन्ते, अत इह "दूराद्धृतौ च" (कात० परि०, सं० १०१) इत्यादिप्लुतनियमो न कृत इति ।।४५। ॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां प्रथमे सन्धिप्रकरणे
तृतीयः ओदन्तपादः समाप्तः!!
[क० च०]
अनुप० । अथ किं स्वरूपेणानुपदिष्टाः, उतस्वित् संज्ञया, आहोस्वित् संज्ञितया । तत्र नाद्यः । स्वरूपेणानुपदिष्टानां भाषायां प्रयोग एव नास्ति । नापि द्वितीयः । स्वरादिसंज्ञाभावे विकृतिप्राप्तेरभावात् प्रकृतिविधानस्य वैयर्थ्याच्च । तृतीयस्तु न्याय्यः । किन्तु ह्यस्तन्यद्यतनीक्रियातिपत्तीनामपि प्रकृतिभावः स्यात्, यतस्ता अपि भूतकरणवत्यः संज्ञायामनुपदिष्टा इत्याह - नन्वित्यादि कुलचन्द्रः। अन्ये तु पूर्वयोर्योगयोरपि विभक्तेः प्रकृतिविधानात् तत्प्रस्तावादिहापि अनुपदिष्टा विभक्तय एव गृह्यन्ते इत्याशङ्क्याह - ननु इत्यादि । विभक्तेरनुपदेशः सङ्गत एवेत्याहुः । हेमकरस्त्वाह - ह्यस्तनीप्रभृतिशब्दा अपि नोपदिष्टाः । अतो ह्यस्तन्यद्यतनीत्यादिष्वपि, कुतो यत्वादिकमित्याशक्यते । ___ नन्वित्यादि । वर्णा एवानुपदिष्टा वेदितव्या इति, न च ह्यस्तन्यादयः शब्दा इति भावः । ननु उदात्तादिभेदा अपि व्यक्त्या अनुपदिष्टा इति तेषामपि प्रकृतिभावः ? सत्यम् । ते हि तेषां वर्णानां धर्मा इति । प्लुतस्तु वर्ण एव न तु धर्मः । त्रिमात्रो हि प्लत इति हेमकरः। तन्न । प्लुत एव उदात्तादिविशिष्टानामपि वर्णानां स्वरूपेण उपदेशाभावात् केवलत्वादिनैव तदुपदेशः। न. हि वर्णसमाम्नाये या व्यक्तय उपदिष्टास्तासामुदात्तादयो धर्मा युगपत् सम्भवन्ति । एकस्य विरुद्धानेकधर्मासम्भवात् 'तस्मात् त्रंयानुपदिष्टस्यैवात्र ग्रहणमिष्टम् । त्रिमात्रस्तु न क्वचिदपि स्वरूपेणोपदिष्ट इति न दोषः।.
ननु प्लुतानामनुपदिष्टत्वं ज्ञापयति इति चेत्, संज्ञासूत्रे. चतुर्दशेति ज्ञापकाद् यदि प्लुतोपदेशः कृतः स्यात् तदा अष्टाविंशतिरित्युक्तं स्यादिति कुलचन्द्रः । तन्न । ह्रस्वस्य प्लुतत्वाभावात् । तथा च सिद्धसूत्रटीकायामुक्तम् - दीर्घा एव बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते दीर्घोपदेशाद् वा इत्युक्तम् । तरनाच्चतुर्दशपदमपहाय एकविंशतिरिति पठितं स्यादिति वरंमुत्तरम् । यद्येवं स्वरा एवानवच्छिन्नसन्ततंयो
१.
तन्मात्रया-पाठा० ।