________________
१९०
कातन्त्रव्याकरणम्
[दु० टी०]
अनुप० । ननु ह्यस्तन्यादयोऽप्यनुपदिष्टा एव, तेषामपि प्रकृतिभावः कथन्न स्यात् ? सत्यम् । स्वरसन्धिप्रस्तावादेवानुपदिष्टाः स्वरा वेदितव्या इत्याह - ये चाक्षरसमाम्नाय इति । तर्हि प्लुताश्चेति किमिति न कृतम् इति चेत् - नात्र प्लुतसंज्ञादृता | अत एव नोपदिष्टा इत्युक्तमेव, वर्णविचारेणामी प्रचुरतरप्रयोगविषया भाषायामपि । दूराह्वान इत्यादि । ते चानियता एव नाटकेष्वपि दृश्यन्ते ।
अत इह प्लुतनियमो न कृत इति संबुद्धिनिमित्तस्य ओकारस्येतौ विसन्धिविवक्षयापि का वस्तुक्षतिरिति । भानो इति भानविति । उ निपाते समानार्थो वकारो निपात इतावेव दृश्यते -उ इति विति । तथा सानुनासिको दीर्घश्च उ इतावेव निपात उ इति । निपाता हि प्रयोगगम्या एव । यस्तु "उञः उम्" (द्र०, उञः, ऊँ-पा० १।१।१७,१८) ऊँ इत्यादिशति, तेनाप्युञ उकारस्यैवैष्टव्यम् इह मा भूत् – 'अह उ अहो इति, 'परनिमित्तादेशः पूर्वस्मिन् स एव' (काला० परि० १८) इति । अनन्तस्थाशिटो व्यञ्जनादपि वकारो निपातः स्वरे दृश्यते - 'वाग् उ अस्ति' वाग्वस्ति । 'किम् उ आ वपनम्' किम्वावपनम् । नात्र "मोऽनुस्वारम्०” (१।४।१५), संज्ञापूर्वकत्वादिति । ॥ इति श्रीदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे
तृतीयः ओदन्तपादः समाप्तः॥
[वि० प०]
अनु० । ननु ह्यस्तन्यादयोऽप्यनुपदिष्टास्तेषामपि प्रकृतिभावः कथन्न स्याद् इति न देश्यम् । स्वरा हि वर्णास्तत्सन्धिप्रस्तावाद् वर्णा एवानुपदिष्टा वेदितव्याः । वर्णानां चोपदेशोऽक्षरसमाम्नायविषय एव, अतोऽनुपदेशोऽपि तत्रैव इत्याह - ये चाक्षर इत्यादि । ननु ये च वर्णसमाम्नायविषये नोपदिष्टास्तेषां प्रयोग एव । कथम्, येन प्रकृतिभावश्चिन्त्यते इत्याह – व्यक्त्या नोपदिष्टा इति । व्यक्तिभेदेन नोपदिष्टाः, जात्या तु स्वरसंज्ञिता इति, स्वरसंज्ञा संजाता एषामिति तारकादिदर्शनात् संजातेऽर्थे इतच्प्रत्ययः, तमादिनिपातनात् । के पुनस्ते इत्याह – प्लुता इति ।
ननु किमिति नोपदिष्टाः प्लुताः ? सत्यम् । एवं मन्यते - स्वरा एवानवच्छिन्नसन्ततयो बहुशोऽभिधीयमानाः प्लुतव्यपदेशं लभन्ते, तत् किं भेदोपदेशेनेति ? ते च