________________
१८६
कातन्त्रव्याकरणम्
अपरे तु द्विवचनान्तरस्यापि केवलं द्वित्वार्थ - प्रतिपादकत्वादिति पूर्वेण सह केवलशब्दस्यान्वय इत्याहुः । व्यञ्जनस्येति व्यञ्जनान्तस्येत्यर्थः । विसर्जनीयस्येति । ननु स्वरता णत्वविधौ व्यञ्जनता स्वरसन्धाविति नियमात् कथमत्र . विसर्जनीयस्य व्यञ्जनत्वं स्वरसन्धेरभावात् ? सत्यम् । यन्मते सामान्येन स्वरत्वं व्यञ्जनत्वं चोक्तं तन्मतमवलम्ब्योक्तम् । चित्रन्चत्रेति | चित्रा नौर्यत्र जले इति पाठोऽपौराणिक एव, नित्यं कप्राप्तिप्रसङ्गात् । तथा च -
अनडुत्-पुं-पयोलक्ष्मी-नावामेकत्वयाचिनाम् ।
नित्यं कः स्याद् बहुव्रीही वा. स्याद् द्वित्वबहुत्वयोः॥ तस्मात् चित्रा नाव इति युक्तः पाठः । यदि बहुपुस्तके एकवचनान्त एव पाठस्तदा समासान्तविधेरनित्यत्वाभ्युपगमान्न कप्रत्ययः इति सिद्धान्तः । यद् वा न अवतीति ऊः, वकारस्य ऊः न ऊः, अनौः, "अवर्णादूटो वृद्धिः" (४।६।११६) इति औकारः । चित्रा नौनकारपालयित्री (?) यस्मिञ्जले इति । एवं च सति चित्रा नौर्यस्मिन्नेकवचनान्तविग्रहवाक्यम् अपि सुतरामेव संगच्छंते । अस्मिन् पक्षेऽर्थवत्त्वाच्चौकारस्य सिध्यतीति युक्तम् उत्पश्यामः।
ननु प्रसज्यपक्षेऽपि स्वरग्रहणानुवृत्तौ सत्यां स्वरो द्विवचनं स्वरे प्रकृत्या तिष्ठतीति सूत्रार्थे 'अयजावहि आवाम्' इत्यत्र द्विवचनस्य व्यञ्जनसमुदायस्य सूत्रे व्यञ्जनसमुदायत्वान्न भविष्यतीति किं पर्युदासग्रहणेन ? सत्यम् । प्रसज्यनञौ विसदृशवचनव्याप्त्या स्वराधिकारो न ग्राह्य इति कश्चित् । वस्तुतस्तु स्वराधिकारस्यानिवार्यत्वाद् वर्तत एवेति । ततश्च स्वरः स्वरान्तं द्विवचनमित्यर्थः ।।४३।
[समीक्षा] ___ 'अग्नी एतौ, पटू इमौ, शाले एते, माले इमे' आदि स्थलो में अग्नि-पटु-शाला और माला शब्दों से प्रथमा-विभक्तिद्विवचन ‘औ' प्रत्यय के आने पर 'इ-उ' आदेश तथा सवर्णदीर्घ या गुण प्रवृत्त होता है | उनसे पर में स्वरादि सर्वनामों के रहने पर पाणिनीय व्याकरण के अनुसार पहले इनकी प्रगृह्यसंज्ञा होती है- "ईदूदे द्विवचनं प्रगृह्यम्" (पा० १।१।११) और तब "प्लुतप्रगृह्या अचि नित्यम्" (पा० ६।१।१२५) से प्रकृतिभाव ।
कातन्त्र के अनुसार किसी संज्ञा के विना सीधे हो जो प्रकृतिभाव करके उक्त रूपों की सिद्धि की जाती है, उससे लाघवप्रतीति स्पष्ट है । प्रकृतिभाव की व्यवस्था न होने पर 'अग्नी एतौ' में "इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८) से