________________
१८५
सन्धिप्रकरणे तृतीयः ओदन्तपादः यत्तु असवर्ण इत्यत्र भिन्नमात्रपरत्वेन प्रसज्यप्रतिषेध इति न व्यञ्जनसूत्रे पञ्ज्यां प्रोक्तं तद् विसदृशवाची नञ् प्रसज्यप्रतिषेधः । सदृशवाची तु पर्युदासः इत्याधुनिकसङ्केतमादायैव इह सर्ववादिसम्मत एव पर्युदासो नञ् गृह्यते । स च द्विविधः-सदृशग्राही विसदृशग्राही च । अत एव पञिकायां कथमेतदित्यादिना कृते पूर्वपक्षे पर्युदासस्य सदृशग्राहित्वादिति सिद्धान्तः संगच्छते । अन्यथा पूर्वमेव पर्युदासस्योक्तत्वाद् देश्यमेव नावतरति ।
हेमकरस्तु पूर्वपक्षवादिना पर्युदासार्थो न ज्ञात इति कृत्वा भ्रान्तेन पूर्वपक्षवादिहृदयं जानता सिद्धान्तवादिना यत् सिद्धान्तयितव्यम्, तदेव स्वयमुक्त्वा दूषयितुमाह - पूर्वपक्षवादी पर्युदासस्य सदृशग्राहित्वादित्यादीति समाचष्टे |तन्न | स्वोक्तयुक्त्यैव पञ्जी संगच्छते, कुव्याख्यानस्यान्याय्यत्वादिति । अन्ये तु व्याख्यानादिति औवर्जम् इत्यकरणादित्याहुः । आचार्यपारम्पर्याद् इत्यपरे । वैयस्तु यदीह पुनः प्रसज्यार्थो गृह्यते तदा अनेनैव 'अयजावहि आवाम्' इत्यादौ प्रकृतिर्भविष्यति किं पुनरेतदर्थम् ‘आते-आथे' इति चेति ज्ञापनार्थो विसन्धिनिर्देशः क्रियते, तस्मात् पर्युदासोऽयमित्याह । तन्न, आख्यातैकारान्तं प्रति तस्य नियमस्यार्थवत्त्वादिति । अनावं भूतम् अनौभूतमिति औसदृशरूपान्तरं प्राप्तमित्यर्थः ।
यथा इत्यादि । ननु भूधातोरत्र प्राप्त्यर्थत्वात् 'भू प्राप्तावात्मनेपदी' इति नियमादात्मनेपदं युक्तम्, तत् कथं परस्मैपदनिर्देशः ? नैवम् । प्रथमगणीयभूधातोरेव रूपमिदम् । अयमपि धातूनामनेकार्थत्वात् प्राप्त्यर्थे वर्तते इति कश्चित् । अन्ये तु गणकृतस्यानित्यत्वादित्याहुः । वयं तु प्रथमगणीयधातुरेव स्वार्थे कारितार्थं चुरादौ पठ्यते । ततश्च यत्र कारितं स्यात् तत्रैव आत्मनेपदम्, परस्मैभाषामध्ये पठितत्वात् । कारिताभावपक्षे परस्मैपदमित्युत्तरमेव साधीय इति ब्रूमः । __अर्थकृत इत्यादि । तदा किं दूषणं स्यादित्याह - केवलम् इत्यादि । किन्त्वर्थे केवलशब्दः । यद् वा केवलशब्दस्य यथाश्रुतार्थत्वेऽपि न दोषः । तथाहि प्रथमाद्विवचनस्य द्वित्वसंख्याविशिष्टो लिङ्गार्थ उक्तः । द्वितीयादिद्विवचनस्य च द्वित्वसंख्याविशिष्टकर्मस्वरूपोऽर्थः अर्थद्वारा तत्सदृशस्य द्विवचनस्य प्रकृतिभावो भवन् युवामत्र, युवयोस्त्र, आदिशब्दाद् देवयोरत्रेत्यादिष्वेव स्यात् । तृतीयाद्विवचनस्य च कारकगतवैसादृश्यस्य विद्यमानत्वाद् इति । यद्येवं तथापि युवयोरत्रेति वक्तुमनुचितम् अव्यतिरिक्तलिङ्गार्थकर्मत्वयोरभावात् । नैवम् । दर्शनादिपदाध्याहारेण "कर्तृकर्मणोः कृति नित्यम्" (२।४।४१) इत्यनेन षष्ट्या अपि कर्मणि विहितत्वाद् इति ।