________________
कातन्त्रव्याकरणम्
सन्निहितबुद्धेर्न्याय्यत्वाच्च । यद्येवं निःसन्देहार्थम् अनौदिति तकार एव निर्दिश्यताम् इति । एवं सति नपुंसकसमानाधिकरणेऽपि न ह्रस्वः, स्थानिप्रतिपत्तिगौरवशङ्का च परिहृता भवति ? सत्यम् | शब्दकृतलाघवमङ्गीकृत्य औकारस्वरूपेगार्थकृतगौरवनिर्देशेन ज्ञाप्यते । यत्र द्विवचने औकारस्वरूपप्रध्वंसाभावस्तद्विवचनमिति तेनानाविति औकारप्रध्वंसाभाववतीति । एतच्च तदेव घटते यद्यौकारकृतादेशस्य द्विवचनस्य प्रकृतिर्विधीयते इति । तथा च औकाररूपं परित्यज्य रूपान्तरं प्राप्तमिति वृत्तिः। एतदेवाह - पर्युदासोऽयम् इति । व्याख्यानाद् एतादृशव्याख्यानादित्यर्थ इति कश्चित् । तन्न । व्याख्यानसिद्ध्यर्थं यत् कारणमुक्तं तदसङ्गतम् ।
१८४
तथाहि द्विवचनमित्यस्य विशेषणत्वेऽपि अनौशब्दस्य नपुंसकत्वप्रसङ्ग एव नास्ति, नञ्तत्पुरुषस्योत्तरपदप्रधानत्वादिति । यथा अवर्षा हेमन्त इति स्त्रीत्वप्रसङ्गता । तस्मादनाविति लुप्तप्रथमैकवचनं पदम् इति । यच्च निःसन्देहार्थम् अनौदिति तकारो निर्दिश्यताम् इत्युक्तम्, तदतीव शिथिलम्, तद्व्याख्यानेऽपि निःसन्देहार्थं विभक्तावनाविति वक्तुं शक्यत्वात् । एवं च सति लाघवमपि भवति औभिन्नविभक्तौ स्वरः प्रकृत्या तिष्ठतीत्यर्थः । किञ्च नञः प्रध्वंसवाचित्वात् समासासङ्गतिः । अन्योऽन्याभाववाचिना नञा तत्पुरुषविधानात् ।
यदाह श्रीपतिः- इदमेतन्न भवतीति प्रतिषेधोऽस्य विषय इति तस्मादिदं ब्रूमः । ननु कतमोऽयं पूर्वपक्ष:, नञ् पर्युदासः प्रसज्यो वा । तथा च
-
प्राधान्यं तु विधेर्यत्र निषेधे चाप्रधानता । पर्युदासः स विज्ञेयो यत्रोत्तरपदे न नञ् ॥ अप्राधान्यं विधेर्यत्र निषेधे च प्रधानता ।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥
" अकर्तरि च कारके संज्ञायाम्” (४/५/४) इत्यत्र कारकग्रहणं प्रसज्यनञ्समासार्थमिति वक्ष्यति । तथा च पञ्जीकारोऽप्याह - " प्रसज्यवृत्तिरभावमात्रविषयो नञ्, तस्य क्रियापदेनैव सम्बन्धो नोत्तरपदेनेति" । तत् कथमत्र प्रसज्यनञ् न गृह्यते ? सत्यम् । प्रसज्ये नञि गृह्यमाणे प्रकृत्या तिष्ठति, औकारस्तु न तिष्ठति इति वाक्यभेदः स्यात् । पर्युदासे तु 'अनौ' द्विवचनं प्रकृत्या तिष्ठतीत्येकवाक्येनान्वयः स्यादिति । तथा च“सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते " इत्याह- पर्युदासोऽयं व्याख्यानादिति । अत एव पर्युदासः सर्वशास्त्रसम्मतः ।