________________
१८३
सन्धिप्रकरणे तृतीयः ओदन्तपादः [वि० प०]
द्विवचनम् । अनौभूतमिति । न औ अनौ, पर्युदासोऽयं व्याख्यानात् । अनावं भूतम् अनौभूतम् इति भवतिरत्र प्राप्तौ सकर्मकः । यथा सर्वं भवति सर्व प्राप्नोतीति गम्यते । एतदेव स्फुटीकुर्वन्नाह - औकाररूपम् इत्यादि । प्राप्तम् इति कर्तरि निष्ठा । यदा द्विवचनम्
औकार: औकारं पूर्वम् इत्यादिना लक्षणेनात्मीयमौकाररूपं परित्यज्य रूपान्तरं प्राप्नोति तदा प्रकृतिभावः । कथमेतद् यावता औकारादयम् अन्यद् द्विवचनं तत् स्वरे प्रकृत्या तिष्ठतीति सूत्रार्थः कथं न स्यात् ? नैवम् । अनाविति पर्युदासस्य सदृशग्राहित्वाद् इति चेत् तदा अनुचितम् ।
सादृश्यं हि द्विविधं सम्भवति - रूपकृतम् अर्थकृतं चेति । तत्र रूपकृतम् इह न सम्भवत्येव, न ह्यौकारसदृशाकारं द्विवचनमन्यदस्ति । अर्थकृतं तु सम्भवत्येव, द्विवचनान्तरस्यापि द्वित्वार्थप्रतिपादकत्वात् । केवलं युवामत्र, युवयोरत्रेत्यादिष्वपि प्रकृतिभावः स्यात् । तदयुक्तम्, उभयथाप्यदोषात् । यत औकार एको वर्णो नामी तत्सादृश्यग्रहणेन कथमिह रूपकृतं न सादृश्यम् । अर्थकृतेऽपि न दोषः "न व्यञ्जने स्वराः सन्धयाः" (१/२/१८) इत्यतः स्वरानुवृत्तेः । स्वरो हि द्विवचनं स्वरे प्रकृत्या तिष्ठतीत्युक्ते कुतो युवामत्र, युवयोरत्रेति व्यञ्जनसञ्ज्ञा प्रतिपादितैवेति ।
'अग्नी एतौ' इत्यादि । अग्नेः परस्य द्विवचनस्य औकारः पूर्वमिति यथाक्रमम् इकारोकारौ, समानलक्षणो दीर्घः, परलोपश्च । तथा श्रद्धायाः परस्यौकारस्य "औरिम्" (२/१/४१) इतीकारः । ननु कथम् अत्र प्रकृतिभावः, द्विवचनस्य लुप्तत्वाद् इहैव स्यात् – ‘पयसी इह, मधुनी एते' इति ? सत्यम् । ‘परनिमित्तादेशः पूर्वस्मिन् स एव' (कात० परि० सू० ४७) इति न विरुध्यते । चित्रन्वत्रेति । चित्रा नावो यस्मिन् जले तत् चित्रनु जलम् । “स्वरो हस्वो नपुंसके" (२/४/५२) इति ह्रस्वः । पर्युदास इत्यादि । यजेस्तिन्यामात्मनेपदोत्तमपुरुषस्य द्विवचनं वहि, “अन् विकरणः कर्तरि" (३/२/३२), "अस्य वमोर्दीर्घः" (३/८/११), "अड् धात्वादिः" (३/८/१६)। आवाम् इति । अस्मद् औ, “एषां विभक्तावन्तलोपः, युवावौ द्विवाचिषु, अमौ चाम्" (२/३/६,७,८)। प्रसज्यनञि गृह्यमाणेऽत्रापि प्रकृतिभावः स्यादिति ।।४३ ।
[क० च०]
द्विवचनम् । ननु अनावित्युक्ते न इ अनि, तस्मिन्ननौ, ततश्च पूर्वतः स्वरानुवृत्तौ इकारभिन्न एव स्वरे द्विवचनं प्रकृत्या तिष्ठतीति सूत्रार्थः कथन्न स्यात् ? नैवम् । यथाश्रुत औकारवर्णपरिग्राहकः सम्भवति , अन्यकल्पनाया दुरित्वात् ।