________________
१८२
कातन्त्रव्याकरणम्
४३. द्विवचनमनौ (१।३।२) [सूत्रार्थ]
स्वर वर्ण के पर में रहने पर उस द्विवचन का प्रकृतिभाव होता है जो औरूप से भिन्न हो । अर्थात् द्विवचन ‘औ' रूपान्तर को प्राप्त हो गया हो ।।४३।
[दु० वृ०]
द्विवचनं यदनौभूतं तत् स्वरे परे प्रकृत्या तिष्ठति । औकाररूपं परित्यज्य रूपान्तरं प्राप्तमित्यर्थः । अग्नी एतौ । पटू इमौ । शाले एते । माले इमे | द्विवचनमिति किम् ? चित्रन्वत्र | पर्युदासः किम् ? अयजावह्यावाम् । देवयोरत्र | अनौभूतम् इति किम् ? तावत्र ।।४३ ।
[दु० टी०]
द्विवचनम् । ननु ‘अग्ना एतौ' इत्यादिषु द्विवचनस्य लुप्तत्वात् कथं प्रकृतिभावः, इहैव स्यात् – 'पयसी इमे । मधुनी इह' इति । सत्यम् । ‘परनिमित्तादेशः पूर्वस्मिन् स एव' (कात० परि० वृ० ४४) इति न विरुध्यते । अनाविति । न औ अनौ, पर्युदासोऽयं नञ् । पर्युदासश्च सदृशग्राही । सादृश्यं चार्थकृतमत्र, न रूपकृतम्, असम्भवात् । अत आह - औकाररूपं परित्यज्य इत्यादि । कथं तर्हि युवामोति प्रकृतिर्न स्यात् "न व्यञ्जने स्वराः सन्धेयाः" (१/२/१८) इत्यतः स्वरानुवृत्तेः औरेकाक्षरो नामी तत्सदृशं यदपरम् एकाक्षरं नामीति वा ।
चित्रन्वत्रेति । चित्रा नौर्यस्मिञ्जले तच्चित्रनु जलम् - "स्वरो हस्वो नपुंसके" (२/४/५२) इति ह्रस्वः । पर्युदासः किमित्यादि |प्रसज्ये नअि स्वीक्रियमाणे अयजावह्यावाम्, देवयोरत्रेति प्रकृतिः स्यादिति पर्युदासाश्रयणम् । अयजावहीति यजेस्तन्यामात्मनेपदोत्तमपुरुषद्विवचनं वहि, मध्ये अन्विकरणः, “अस्य वमोर्दीर्घः" (३/८११) । अड् धात्वादिरित्यादि । 'आते, आथे' इति चेति ज्ञापकं वक्ष्यते, तेन पचेते (पचावहे) इति, करिष्येते इहेति आख्यातिकद्विवचनस्यैकारस्य प्रकृतिर्भवति । मणी वादीनां प्रतिषेधः कैश्चिदिष्यते । "मणी वोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम" (मभार.१२/१७१/१२) दम्पतीव, रोदसीव । अदसः साकोऽपि विकृतिर्वक्तव्या | अमुकेऽत्र कथं न तदन्तविधिविचनान्तमनौकारान्तमिति । तदा अग्नी आश्रितोऽग्न्याश्रित इति प्रकृतिः प्राप्नोति 'प्रत्ययलोपे प्रत्ययलक्षणम्' (कात.परि.वृ.५२) इति द्विवचनान्तमेवेदम् । एवं सत्यपि श्रुतत्वाद् द्विवचनस्यैवेति ।।४३ ।