________________
सन्धिप्रकरणे तृतीयः ओदन्तपादः
१७९ तस्मादकारादिग्रहणमाचक्षाणो बोधयति - भाषायाम् अ इ उ आ एव केवला विद्यन्ते, न त्वोकार इति ।अतोऽस्य तदन्तस्यैव ग्रहणं भविष्यति, किमन्तग्रहणेनेति ? सत्यमेतत् । अन्तग्रहणम् 'अर्थवद्ग्रहणे नानर्थकस्य' (काला० परि० ७) इत्यनित्यत्वं ज्ञापयति, तेन 'तेजस्वी - पयस्वी' इत्यादयः सिद्धाः । अन्यथा इनोऽर्थवद्ग्रहणे कथं विन्प्रत्ययस्यैकदेशस्यानर्थकस्य ग्रहणम्, “इन्हन्पूषार्यम्णां शौ च” (२।२।२१) इत्यनेन दीर्घः स्यात् । एवमन्यत्रापि प्रयोगानुसारेणानित्यत्वम् ऊहनीयम् ।
निपाता इत्यादि । इषु इच्छायाम् (५।७०), उष दाहे (१।२२९), अट पट (१।१०२) इत्यादि दण्डको धातुः । सर्वत्र परोक्षाया अतुस् | "चण् परोक्षा०" (३।३।७) इत्यादिना द्विवचनम् अभ्यासलोपश्च । अटोऽभ्यासे "अस्यादेः सर्वत्र" (३।३।१८) इति दीर्घत्वम् । एतेषु स्वरादेशसमानलक्षणदीर्घादयो भवन्त्यनिपातत्वात् ।।४२।
[क० च०]
ओदन्ताः । अहो अ अपेहि इति । ननु कथम् एतद्, यावता ओकाराद् एदोत्सर० (१।२।१७) इत्यादिना अकारलोपः प्राप्तः । “अहो इ इन्द्रं पश्य' इत्यत्र ओकारस्य चावादेशे कृते ओतोऽन्ता अ इ उ आ एव न सम्भवन्ति, कुतोऽत्र प्रकृतिरिति । नैवम्, ओदन्ता इति विशेषणादकारलोपं प्रत्यपि प्रकृतिभावः । कथमन्यथा ओतोऽन्ता अ इ उ आः स्युरिति कुलचन्द्रः। अन्ये तु यस्मिन् समये प्रकृतिर्विधीयते, तस्मिन्नेव ओदन्तानामिति को नियमः । यदा कदाचिद् ओदन्तानामपि भवतीति ओकारस्यावादेशो भवत्येव - ‘अहवि इन्द्रं पश्य' इति | इकारस्य प्रकृतिविधानादेव न लोपः । अन्यथा ओकारात् कस्य प्रकृतिर्विधातव्या इति । यत्तु पजीकृता 'अहो इ इन्द्रं पश्य' इति प्रकृतिर्दर्शिता, तत्तु सन्धिस्थानोपदर्शनार्थमेव । न त्वस्मिन् पक्षे ओकारस्य प्रकृतिरित्याहुः । तत् तुच्छम्, अनर्थकानुकरणस्य लिङ्गसंज्ञाविरहात् पदत्वाभावे ‘गो अ आह' इत्यत्र अवादेशे 'गव आह' इत्यत्रैवाकारस्य प्रकृतिभावस्य उपपत्तौ ओकारेण ज्ञापयितुमशक्यत्वात् । यदि तु अवादेशे सति सम्प्रति नास्त्योकार इति मन्यसे, तदा अहवि इन्द्रं पश्येत्यत्रापि समानतेति दिक् ।
ननु विशेषाभावादेतदेव कथं न स्यादित्याह - इष्टश्चैवमादीनामित्यादि। चकारोऽत्रावधारणार्थ इष्ट एवेत्यर्थः। नहि इष्टार्थं क्रियमाणं शास्त्रमनिष्टाय परिकल्पत इति भावः। तथा चोक्तम् – 'व्याख्यानतो विशेषार्थप्रतिपत्तिर्नहि