________________
१८०
कातन्त्रव्याकरणम् सन्देहादलक्षणम्' (कालापपरि० ८८) इति। व्याख्यानाद् आचार्यपारम्पर्यादिति शरणदेवः । व्याप्तिबलान्न तत्पुरुष इति कुलचन्द्रः । नव्यास्तु ओकारात् परे साक्षाद् अ इ उ आ न सम्भवन्तीति, एतदेव बहुव्रीहौ बीजम् । न तु तत्रापि प्रकृतिपिनीया, अन्यथा सिद्धौ ज्ञापकस्यान्याय्यत्वादित्याहुः । यच्च ओकारादिति सिद्धे यदन्तग्रहणं तद् बहुव्रीह्यर्थमिति तन्नास्मिन् पक्षेऽन्तग्रहणस्य अकारादीनां केवलार्थतया व्याख्यातुं शक्यत्वात् । ओदन्ताः केवला अ इ उ आ, इति अहो चेतीत्यत्रैव व्यावृत्तिः ।
ननु बहुव्रीहिपक्षेऽपि ओदन्ता इति अ इ उ आ इत्येषां विशेषणं स्यात् । ओदन्ता येषामकारादीनामिति । ततश्च 'अ ओकारं पश्य' इत्यादावेवास्य विषयः स्यादिति । नैवम्, विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । स्वरग्रहणमपनीय ओतीत्यकरणाच्च । ननु स्वरे प्रकृतिः स्वराद् विकृतिरिति टीकायां स्वरग्रहणस्य यत् फलमुक्तं स्वरग्रहणाभावे कथं तन्न स्यात् । नैवम्, ओतीति कृतेऽपि तद्व्याख्यानस्य कर्तुं शक्यत्वादिति । तथा चोक्तम् इत्यादि । मर्यादाभिविधाविति समाहारेऽपि न निवृत्तिः श्लोकत्वादिति कुलचन्द्रः।
वस्तुतस्तु मर्यादासहितोऽभिविधिरिति मध्यपदलोपी समासः। ईषदर्थे - आ उष्णम् ओष्णम् । क्रियायोगे- आ इहि एहि । मर्यादायाम् - आ उदकान्तात्
ओदकान्तात् । अभिविधौ- आ अहिच्छत्रात् आहिच्छत्रात् (अहिच्छत्रं नाम नगरम्) । निरर्थकस्य प्रयोग एव नास्तीत्याशङ्का आकारस्य सार्थकत्वं प्रतिपादयन्नाह - अथवेति। यद् वा, ननु पूर्वमुक्तं वाक्ये कथमिदमुच्यते वाक्यालङ्कार इत्याह – अथवेति । ननूक्तान्यप्रकारवाचित्वाद् अन्यथाशब्दादेव यद्येषोऽपि केवलो विद्यते इत्यर्थो गम्यते । अत उक्तार्थमिदमिति । नैवम्, अभिप्रायापरिज्ञानात् । अन्यथाशब्देनात्रान्तग्रहणस्यान्यथात्वं बोध्यते, नतु पूर्वोक्तस्य । अन्तग्रहणमन्तरेण इत्यर्थः । ___ ननु निपातग्रहणस्य व्यावृत्तिरभ्यासे दर्शिता । कथं विष्ण्वादिवाचकानामकारादीनामपि सम्भवात् । नैवम् । अत्र अन्तग्रहणमकारादीनां केवलार्थमित्युक्तम् । ततश्च यत्र व्यपदेशिवद्भावेनापि केवलत्वं व्याहन्यते । तत्रापि नास्य सूत्रस्य विषयः । यत्तु 'अ अपेहि' इत्युदाहृतं तन्निपातग्रहणस्य स्थितौ अन्यत्रासम्भवाद् असति निपातग्रहणेऽभ्यासविषयमेव सूत्रं सम्भवति । अत एव अकारस्य न प्रत्युदाहृतम्, अभ्यासेऽकारस्यासम्भवात् । न च वक्तव्यम् अभ्यासेऽपि व्यपदेशिवद्भावो निवार्यतामिति केवलशब्दस्यासहायार्थत्वादिति कश्चित् । तन्न, अभ्यासेऽपि व्यपदेशिवद्भावस्य दृष्टत्वात्।