________________
१७८
कातन्त्रव्याकरणम् वायमिति । अ-इ-उ-आश्चेति चकारेण न केवलमोदन्ता निपाता अ-इ-उ-आश्च निपाता इति सूच्यते । एतच्च विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वाल्लभ्यते । आकारो हि द्विविधः सानुबन्धो निरनुबन्धश्च । यथोक्तम् -
ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ।
सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु॥ तत्र निरनुबन्धैरकारादिभिः साहचर्याद् आकारोऽपि निरनुबन्धः प्रतिपत्तव्यः । स च वाक्यस्मरणयोरेव वर्तमानो निरनुबन्धस्तस्यैव प्रकृतिभावं दर्शयति । आ एवं किं मन्यसे इत्येतद् वाक्यम्, एतस्मिन्नाकारो निरनुबन्धो वाक्यालङ्कारमात्रे प्रयुक्तः। अथवा वाक्यस्मरणयोरित्यत्र वाक्यशब्देन वाक्यार्थ उक्तः, अभिधेये अभिधानोपचारात् । तेन वाक्यार्थे स्मरणे च वर्तमान आकारो निरनुबन्ध इत्यर्थः । वाक्यं च पूर्ववाक्यार्थाविपरीतकरणे वर्तते । यत् त्वया प्राङ् मतं तत् किमिदानीं मन्यसे इत्यर्थः । अस्मिन वाक्यार्थे द्योतकत्वेनाकारो वर्तते । 'आ एवं नु तत्' इत्यनेन स्मरणार्थः कथ्यते । नवा उ इति । नवै शब्दोऽयं निपातः ऐकारान्तत्वादेषां मध्ये न भवतीति । सन्धावायादेशे कृते "अयादीनां यवलोप०" (१।२।१६) इत्यादिना यलोपः । अथ किमर्थम् अन्तग्रहणं तद् इत्युक्ते 'येन विधिस्तदन्तस्य' (काला० परि० ५) इति ओदन्ता इति गम्यते । तदयुक्तम् । अकारादीनामपि तदन्तता स्याद् इत्याह - अन्तेत्यादि । एतदेवान्तग्रहणं बोधयति - अत्र सूत्रे 'येन विधिस्तदन्तस्य' (काला० परि० ५) इति नादियते । अत एव सूत्रार्थ – विवरणे अ-इ-उ-आश्च केवला इति केवलग्रहणं युक्तम् ।
ननु चार्थवद्ग्रहणे नानर्थकस्य इति न्यायात् तदन्तानामकारादीनां ग्रहणं न भविष्यति, किमन्तग्रहणेनेति । यद्येवम् ओदन्तोऽपि तदन्तः कथमनर्थको गृह्यते । अथ अर्थवान् ओकारः केवलो न संभवति, अतस्तदन्तस्यैवानर्थकस्य ग्रहणं भविष्यति । तदयुक्तम्, तस्यापि केवलस्य संभवात् । यथा ओ इति । सिद्धान्ते तु कथमस्य प्रकृतिभाव इति चेत्, आद्यन्तवद्भावात् । अन्तग्रहणेन विना अस्यैवार्थवत्त्वात् प्रकृतिभावः स्याद् न तदन्तस्येति।
नैतदेवम् । भाषायां केवला अ इ उ आ एव दृश्यन्ते, न त्वोकार इति । अन्यथा यद्येषोऽपि केवलो विद्यते, अस्य प्रकृत्या भवितव्यम् । तदा अकारादिग्रहणमपनीय स्वरे. . निपाताः स्वरे प्रकृत्येति सूत्रे कृते पञ्चानामेव केवलानां प्रकृतिभावो भविष्यतीति,