________________
१७७
सन्धिप्रकरणे तृतीयः ओदन्तपादः इति न वाहिकोऽनुबध्यत इति किं पुनर्गौणम्, किं वा मुख्यम् । सर्व एव हि शब्दाः प्रवृत्तिनिमित्तव्यवहिता इत्याह नित्यशब्दार्थसम्बन्धवादी
श्रुतिमात्रेण यत्रास्य तादर्थ्यमवसीयते।
तं मुख्यमर्थं मन्यन्ते गौणं यत्नोपपादितम् ॥इति । तर्हि 'गौर्वाहीकोऽस्ति, गां वाहीकमानय' औत्वम् आत्वं च न स्यात्, अर्थाश्रयो हि शब्दानां गौणमुख्यव्यवहारो वाक्यव्यवस्थायामेव सम्भवति, शब्दमात्राश्रितम् औत्वम् आत्वं च स्यादेव । अ इ उ आ इति ।
ईषदर्थे क्रियायोगे मर्यादाभिविधौ य आ।
सानुबन्धः स विज्ञेयो वाक्यस्मरणयोर्न तु॥ निरनुबन्धैः साहचर्यात् सानुबन्धस्याङो विकृतिरेव । आ ईषद् उष्णम् ओष्णम् । क्रियायोगे तु आ इहि = एहि । मर्यादायाम् आ उदकान्ताद् ओदकान्तात् । अभिविधौ
आ अहिच्छत्रात् आहिच्छत्रात् । आ एवं मन्यसे इति वाक्यम् । इह हि निरनुबन्धो निरर्थकोऽयम् आ-निपातः प्रयुक्तो वाक्यार्थो वा | वाक्यं च पूर्व प्रक्रान्तस्य वाक्यस्याविपरीतकरणे वर्तते । नैवम्, यत् त्वया प्राङ् मतं साम्प्रतं किं तत् त्वमेव मन्यसे इत्यर्थः । आ एवं नु तदिति स्मृत्यर्थः, एवं नु तदित्यनेन आविर्भाव्यते । निश्चितः पात एषामिति निपाताः । अर्थाभिधानेषु स्वक्रियायामसमर्थाश्चादयोऽव्ययाः सिद्धाः । तथा चाह - नामाख्यातप्रयोगेष्वर्थाद् अभिन्ना निपतन्तीति निपाताः।
ओदन्ता निपाता अ-इ-उ-आश्च निपाता इत्युभयं विशेषणम् । विशेषणविशेष्यभावस्य प्रयोक्तुरायत्तत्वात् । स्वरे परे प्रकृतिरिति वचनात् पूर्वस्मात् स्वराद् विकृतिरेव । दधि इ अस्य दधी अस्य रुजति । जानु उ अस्य जानू अस्य क्षिपति । सा अ आगता सा आगता । 'परनिमित्तादेशः पूर्वस्मिन् स एव (कात० परि० वृ० ४४) इति प्रकृतिर्न विहन्यते । प्रकृत्येति करण एव तृतीया भवतेर्गम्यमानत्वात् ।। ४२ ।
[वि० प०]
ओदन्ताः । ओद् अन्तो येषामिति बहुव्रीहिः । न पुनः ओतोऽन्ता ओदन्ता अ इ उ आ इति तत्पुरुषः । तदा अहो अ अपेहि, अथो इ इन्द्रं पश्य, अहो उ उत्तिष्ठ, अथो आ एवं किं मन्यसे ? इत्यादिष्वेव प्रकृतिभावः स्यात् । 'अ अपेहि, इ इन्द्रं पश्य' इत्यादिषु न स्यात् । इष्टश्चैवमादीनामपि प्रकृतिभावः। तस्माद् बहुव्रीहिरे