________________
अथ प्रथमे सन्धिप्रकरणे तृतीयः ओदन्तपादः ४२. ओदन्ता अ इ उ आ निपाताः स्वरे प्रकृत्या (१।३।१)
[सूत्रार्थ]
स्वरवर्ण के परवर्ती होने पर ओकारान्त निपात तथा अ, इ, उ, आ इन चार निपातों का भी प्रकृतिभाव होता है ।।४२ ।
[दु० वृ०]
ओदन्ता निपाता अ-इ-उ-आश्च केवलाः स्वरे परे प्रकृत्या तिष्ठन्ति । नो अत्र, अहो आश्चर्यम्, अथो एवम्, अ अपेहि, इ इन्द्रं पश्य, उ उत्तिष्ठ, आ एवं किं मन्यसे, आ एवं नु तत् । एषामिति किम् ? नवाउ । अन्तग्रहणमकारादीनां केवलार्थम्, तेन चेति, इतीह, नन्विति, वेति । निपाता इति किम् ? पट इह, ईषतुः, ऊषतुः, आटतुः ।।४२।
[दु० टी०]
ओदन्ताः । ओत् अन्तो येषामिति बहुव्रीहिः, न पुनरोतोऽन्ता ओदन्ता इति तत्पुरुषः, इहाश्रुतत्वात् । अथ समानाधिकरणम् ओदन्ता अ-इ-उ-आ निपाता इति चेत्, तदा 'अहो आश्चर्यम्, अ अपेहि' इत्यादिष्वेव प्रकृतिरनिष्टरूपा स्यात् । तर्हि किमन्तग्रहणेन, येन विधिस्तदन्तस्येति ओदन्ता इति गम्यते ।सत्यम् । अन्तग्रहणमित्यादि । अथ "अर्थवद्ग्रहणे नानर्थकस्य" इत्यकारादीनाम् ओदन्तानां ग्रहणं न भविष्यति, तर्हि केवलोऽप्योकारोऽस्ति प्रकृतिः पुनरिहाद्यन्तवदुपचारात् । यथा ओ इति । तदयुक्तम् । भाषायामेकस्वरा अ-इ-उ-आ एव दृश्यन्ते । अन्यथा निपातेन स्वरं विशेष्य स्वरो निपात इति विदध्यात् । तदन्तग्रहणं ज्ञापयति- 'अर्थवद्ग्रहणे नानर्थकस्य' (कात० परि० सू० ४) इत्यनित्येयं परिभाषा | तेन 'तेजस्वी, पयस्वी' इत्यादि सिद्धम् । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्, तेन अतिवोऽस्ति, वोऽभवद् इति विकृतिरिति ।
एवम् अगौ!ः समपद्यत इति गोऽभवदित्यत्र प्रकृतिः प्राप्नोति । नैवम्, ओदन्तोऽपि च्वौ सति निपातोऽयमिति गौण एव । यथा गौरनुवध्योऽजोऽग्नीषोमीयः