________________
सन्धिप्रकरणे द्वितीयः समानपादः विसदृशवचनोऽयमसवर्णशब्दः प्रसज्यार्थवृत्तिरिति व्यञ्जनेऽपि यत्वादिकं स्यात् । यद्येवम् "इवर्णो यमसवर्णे" (१।२।८) इत्यत्र स्वरग्रहणं क्रियतामित्याह - नत्रा निर्दिष्टमनित्यम् (काला० परि० ३७) इत्यादि । तेन पित्र्यमिति पितृशब्दस्य तद्धितयकारे सन्धिरिति ।गयूतिरिति । गवां यूतिर्गव्यूतिः "सातिहेतियूतिजूतयश्च" (४।५।७३) इति यूतिशब्दो निपातितः। अध्वनो मानं परिच्छेदः क्रोशद्वयम् । तस्मिन् संज्ञात्वेन गव्यूतिशब्दः प्रसिद्धः इत्यर्थः । संज्ञेयमिति ब्रुवाणः संज्ञाबलादेव सन्धिकार्यम्, न पुनरनित्यत्वबलाद् इति दर्शयति । यद्येवम्, नमात्रमेव कथं न कृतमिति चेत् ? सत्यम्, सुखार्थमेतदिति ।।४१। ॥इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञिकायां प्रथमे सन्धिप्रकरणे
द्वितीयः समानपादः समाप्तः॥
[क० च०]
नव्यञ्जने० | नन्वित्यादि । ननु असवर्णे स्वरे यत्वादिकं भविष्यतीति अत्र असवर्णे स्वरे इति कथमुक्तम्, यतः सवर्णस्तावत् समानस्तदपेक्षया असवर्णे यत्वादिकं भवत् समान एव निमित्ते स्यात् । एतस्मिंश्च दध्येतदित्यादि न सिध्यतीति, नैवम् । सवर्णादन्योऽसवर्ण इति स्वभावाश्रयणेनैव एतस्यापि निराकृतत्वात् । तत्रैवेति यत्वविधावित्यर्थः । नञा निर्दिष्टम् अनित्यमिति । तेन "ऋतस्तद्धिते यः" इति न वक्तव्यम् । पितुरागतम् इत्यर्थे यो दृश्यते । 'पित्र्यम्, सौभ्रात्र्यम्' । "भावे यण" एतेन पित्र्यम् इति निरुक्तलक्षणेनैव सिद्धम्, किमनेन । न ह्येकोदाहरणं प्रति योगारम्भं प्रयोजयतीति पूर्वपक्षो निरस्तः।
वस्तुतस्तु मूर्खप्रलपित एवायं पूर्वपक्षः, यद् बहूदाहरणसम्भवे न ह्येकोदाहरणं प्रति योगारम्भः कल्प्यते, व्याप्तिन्यायादिति । तथा च षण्णाम्' इत्येकोदाहरणसिद्ध्यर्थं "षडो णो ने" (२।४।४३) इति सूत्रम् । ननु यत्वविधौ स्वरग्रहणेनैव सिद्धे नञर्थमेव यद्येतद्वाक्यान्तरमङ्गीक्रियते, तदा तत्र साक्षात् स्वरशब्दमपनीय "इवर्णो यमव्यञ्जने" इति कृत्वा नञ्मात्रमेव स्वरपरिग्राहकमुच्यताम्, किमनेन ? एतदेव मनसि कृत्वाहनमात्रमेव न कथं कृतमिति । नच "नामिपरो रम्" (१।५।१२) इत्यत्रासवर्णग्रहणस्य प्रयोजनं वक्तव्यम्, तस्य कथं सिद्धिरिति वाच्यम्, नामिपरग्रहणेनापि तस्य व्याख्यातुं शक्यत्वात् । अथवा तत्र 'अव्यञ्जनपरः' इति वक्तव्यम् | तदिह परग्रहणादेतादृशव्याख्यासिद्धिरिति भावः । यदि 'इवर्णो यम् अव्यञ्जने' इति क्रियते, तदा दधीति निरपेक्षं यत्वं स्यादिति हेमकरः ।