________________
१७२
कातन्त्रव्याकरणम्
[दु० वृ०]
न खलु व्यञ्जने परे स्वराः सन्धानीया भवन्ति । देवीगृहम्, पटुहस्तम्, मातृमण्डलम्, जले पद्मम्, रैधृतिः, वायो गतिः, नौयानम् | नना निर्दिष्टमनित्यम् (काला० परि० सू० ३७)। तेन पित्र्यम्, गव्यूतिः । अध्वमाने संज्ञेयम् ।। ४१ ।
॥इति दौसियां वृत्तौ प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः समाप्तः॥
[दु० टी०]
न व्यञ्जने० । इह "तेषां द्वौ द्वावन्योऽन्यस्य सवर्णी" (१।१।४) इत्युक्तम्. अतोऽन्योऽसवर्ण इत्यसवर्णनिबन्धनानि यत्वादीनि व्यञ्जने प्राप्नुवन्तीति प्रतिषेधोऽयम् । स्वभावादसवर्णशब्दो हि विसदृशवचन इति पर्युदासेन नत्रा न सिध्यति । ननु तत्रैव स्वर इति किमिति न कृतम् इति चेत्, न | नत्रा निर्दिष्टमनित्यमित्यादि । तेन ऋकारस्य तद्धिते ये सन्धिरेव पित्र्यमिति सिद्धम् । गव्यूतिरिति अध्वमान इति अध्वमानं परिच्छेदः क्रोशद्वयमित्यर्थः । संज्ञेयं लोकोपचारादेव सिद्धा, नञोऽनित्यत्वादिति स्वरग्रहणं किमर्थं व्यञ्जनानां परगमननिषेधः स्यादिति । अथ व्यञ्जने परे पूर्वस्य सन्धाने निषिध्यमाने कथं परगमननिषेधः । तर्हि ज्ञानभुन्नाथो वा दृशन्नयनमिति "पदान्ते धुटां प्रथमः" (३।८।१) न स्यात् । प्रकरणबलमपि कष्टमिति । सन्धीयन्ते इति सन्येयाः। “आत् खनोरिच्च" (४!२।१२) इति यप्रत्ययः । सन्ध्याश्रयकार्याणि न भवन्तीत्यर्थः । एवं तर्हि नमात्रेणाप्यभिमतसिद्धिरिति चेत्, नैवम् । सुखप्रतिपत्त्यर्थम् ।।४१। ॥इति दुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः समाप्तः॥
[वि० प०]
न व्यञ्जने० । सन्धीयन्ते इति सन्धेयाः। सम्पूर्वो डुधाञ् | "आत्खनोरिच" (४।२।१२) इति यप्रत्ययः, आकारस्येकारः । “नाम्यन्तयो०" (३१५।१) इत्यादिना गुणः । स चायं कर्मसाधन इति पर्यायेण अर्थं दर्शयति - सन्धानीया इति । सन्धिलक्षणकार्यभाजो न भवन्तीत्यर्थः । देवीगृहम् इत्यादि । देव्या गृहमिति यथायोगं विग्रहः कार्यः । वायो गतिरिति पटुशब्दवद्वायुशब्दस्य रूपसिद्धिः । एतेषु "इवर्णो यमसवर्णे" (१।२।८) इत्यादिभिरिति यत्वादयो न भवन्ति ।।
ननु सवर्णव्यपदेशः स्वरस्यैव, तदपेक्षया च असवर्णे स्वरे यत्वादिकं भविष्यति न व्यञ्जने । किमनेनेति चेत्, नैवम् | सवर्णाद् अन्योऽसवर्ण इति स्वभावाद्