________________
१७४
कातन्त्रव्याकरणम् तथाहि - ननु असवर्णग्रहणस्थितौ निरपेक्षं यत्वं कथन्न स्यात् । नैवम्, असवर्णग्रहणाभावे तु ओकारौकारयोर्नानुवृत्तिर्भिन्नयोगात् । 'न व्यञ्जने' इति वचनाद् विशेषविधिभिराघ्रातत्वात् सवर्णे च प्राप्तिस्त्येिव, यदसवर्णग्रहणं तदसवर्ण एव निमित्ते भवतीति प्रतिपत्त्यर्थम् । असति च "न व्यञ्जने स्वराः सन्धेयाः' (१।२।१८) इति सूत्रे अव्यञ्जनग्रहणाभावे,ओकारौकारयोरनुवृत्तिःप्राप्ता, तन्निरासार्थम् अव्यञ्जनग्रहणं कथं सनिमित्ततां साधयति । ततश्च इवर्णो यमापद्यते अव्यञ्जने । व्यञ्जने न भवतीति सूत्रार्थे स्वरनिमित्ते निर्निमित्ते च स्यात्, निमित्तविशेषानाश्रयणात् । एतत्तु प्रसज्यपक्षे । तदयुक्तम् । एतादृशसूत्रार्थे वाक्यद्वयापत्तौ गौरवापत्तेरिति । पर्युदासपक्षे व्यञ्जनभिन्ने परे इवर्णो यमापद्यते इति सूत्रार्थे एकवाक्येनैवार्थसङ्गतिः ।
तथा च "सम्भवत्येकवाक्यत्वे वाक्यभेदो हि नेष्यते" इति । ननु किमर्थमेतद् उच्यते । नमात्रेऽपि सूत्रे व्यञ्जने प्रतिषेधो विज्ञायते । “ओदन्ताः' इत्यादिना स्वरे प्रकृतिविधानात् । इदमप्यसङ्गतं समानदीर्घनिषेधार्थम् “ओदन्ताः" (१।३।१) इति वचनं भविष्यति । इदन्तु वचनम् इवर्ण इत्यतः असवर्ण इत्यधिकाराद् असवर्णे चरितार्थं भवतु, तथापि ओदन्तग्रहणमनर्थकम् । न ह्यत्र समानदीर्घादिप्रसङ्गोऽस्ति, येन प्रकृतिविधातव्या, तस्मादेतदेव ज्ञापनार्थं भविष्यति । नैवम्, नो अत्रेत्यादौ अलोपप्रतिषेधेनैव सार्थकत्वाद् वक्ष्यमाणवचनद्वयमपि अर्थायातदीर्घप्रतिषेधार्थमिति । तर्हि “अनौ" इति किमर्थम्, नह्योकारस्य दीर्घप्रसङ्गोऽस्तीति । नैवम् । अनौ द्विवचनं स्वरे प्रकृत्या तिष्ठति, न औकारस्वरूपमिति व्यावृत्त्यभाव एवेत्यनेन सूत्रेण प्राप्तोऽपि प्रतिषेधो न भवतीति, एतदर्थं स्यात् । वस्तुतस्तु अनौग्रहणं सादृश्यार्थमेव, अन्यथा सामान्येन प्रतिषेधो भवन् अयजावह्यावाम् इत्यत्रापि स्यादिति ।।४१।
___॥इति कलापचन्द्रे प्रथमे सन्धिप्रकरणे द्वितीयः समानपादः समाप्तः॥
[समीक्षा
'देवी + गृहम्, पटु + हस्तम्' इत्यादि स्थलों में पाणिनीय व्याकरण के अनुसार इवर्णादि के स्थान में यकारादि आदेश प्राप्त ही नहीं होते, क्योंकि "इको यणचि" (पा० ६।१।१७) सूत्र में स्पष्टतया 'अच्' शब्द का पाठ किया गया है । इसके अतिरिक्त "तस्मिन्निति निर्दिष्टे पूर्वस्य, तस्मादित्युत्तरस्य" (पा० १।१।६६, ६७) परिभाषासूत्र भी पठित हैं। कातन्त्रकार का सूत्र है- "इवर्णो यमसवर्णे न च परो लोप्यः" (१।२।८)। यहाँ 'स्वरे' शब्द का पाठ नहीं है। ऐसा होने पर यदि १. द्विवचनमनौ (१।३।२)।