________________
सन्धिप्रकरणे द्वितीयः समानपादः
१६९ यस्मादिनि लिङ्गस्येत्यादिना लोपस्य स्वर एव आरम्भकः इत्यनयोरपि लोपो भवति, अव्यगच्छति, वृक्षगच्छति, अव्यआस्ते । प्रकृत्यधिकारोऽप्यत्र स्मर्तव्यः, तबलादनुक्तेऽपि स्वरे गम्यते व्यवस्थितवाधिकारादघोषे न भवति । 'अव्यय् करोति, वृक्षव् करोति' |
यदि प्रक्रियाशब्दो लोकप्रयुक्तो दृश्यते, इनो लोपस्य परनिमित्तस्य स्वरादेशत्वात् पूर्वविधिं प्रति स्थानिवद्भाव इति । "बोर्व्यञ्जने" (४।१।३५) क्विपि लोपो नास्त्येव । स्वरजाविति किम् ? अय्-धातुरयम्, अव्-धातुरयम् । यकारवकाराविति किम् ? पितृ + इ + उदयः = पित्र्युदयः ।अनादिस्थाविति किम् ? इ + उ + आगमः = य्वागमः । उ + इ + आगमः = व्यागमः । व्यञ्जन इति किम् ? दध्यत्र, मध्वत्र । पदान्त इति किम् ? विगणय्य विभाव्य गतः ।।४०।
[वि० प०]
एदोत्परः । एदोद्भ्यां पर इत्यनेन पञ्चमीलक्षणस्तत्पुरुषोऽयमिति दर्शयति, न पुनरेदोतौ परौ यस्मादिति बहुव्रीहिः । तदा एकारे ऐकारस्य ओकारे औकारस्य च विषयत्वात् । पदान्तग्रहणमनुवर्तते एव पूर्वसूत्रादित्याह - पदान्तग्रहणमित्यादि । तेन 'चितम्, स्तुतम्' इत्यत्र "न व्यञ्जने स्वराः सन्धेयाः" (१।२।१८) इत्यनेन पदमध्ये सन्धिर्न भवतीति ।।४०।
[क० च०]
एदोत्० । एकारे ऐकारस्य ओकारे च औकारस्य विषयत्वादिति । ननु पदमध्ये ऐत्वौत्वयोश्चरितार्थत्वात् पदान्तेऽनयोधिकं कथन्न स्यात् ? नैवम् । पदमध्ये ओसि च, असन्ध्यक्षरयोरस्येत्यादिभिराघ्रातत्वात् । देवदत्त ए इत्यपदानकरणस्य पदत्वाभावे एदोद् इत्यादिषु परेऽस्य सूत्रस्याप्रवृत्तौ सत्यामैदौतोश्चरितार्थत्वम् इति न वक्तव्यम् । - अत्रापि पाणिनिदृष्टशकन्ध्वादित्वादकारलोपस्यानङ्गीकृतत्वात् । तथाहि - समानदीर्घनिषेधार्थमैत्वौत्वनिषेधार्थं च "अतो गुणे" (पा० ६।१।९७) इति पाणिनिसूत्रान्तरमुक्तम् । ____अस्यार्थः। पूर्वसूत्रादपदादिति वर्तते अकाराद् अपदान्तत्वाद् अति एति ओति, गुणे गुणसंज्ञके परे पूर्वपरयोः स्थाने पररूपं भवति । तेन गतिकारकोपपदानां सुबुत्पत्तेः प्राक्समासः । प्रायणं प्रध्ययनमिति अपदान्तत्वात् सिद्धमिति शरणदेवः। एवं च दत्ते इत्यपदानुकरणस्थानेऽपि दत्तापि दधेर्दत्तेति दत्तो दम इत्यादिप्रयोग एव भवतीति । अन्ये तु बहुव्रीहिसमासे पदद्वयस्य लक्षणोपपत्तौ गौरवापत्तेस्तत्पुरुष एव साधीयान् इत्याहुः ।