________________
१७०
कातन्त्रव्याकरणम् अथ एदोभ्यामिति क्रियतां किमनर्थकमूलेन परग्रहणेन ? सत्यम् । विचित्रा हि सूत्रस्य कृतिरिति । पदान्तग्रहणमित्यादि।
ननु कथम् अकारः पदान्ते वर्तमानः, स एव पदान्त इति ? सत्यम् । अन्तशब्दः सामीप्यधर्मवचनस्तत्र वर्तते इति न दोषः । कथमेतद्, यावता सामीप्यार्थे नियमाभावाद् एदोद्भ्यां पदान्ते वर्तमानो लोपं प्राप्नुवन् ‘अहं निनय, अहं लुलव' इत्यादावपि प्राप्नोति । तथा सति अवयवार्थ एव सङ्गच्छते । नैवम्, पूर्वसूत्रात् पदान्तग्रहणमनुवर्तते । एतच्च एदोद्ध्यामित्यनेन संबध्यते । तेनायमर्थः- पदान्ते एदोद्भ्यां पर इति कथम् अपदान्ते प्राप्तिप्रसङ्गः?
ननु पदान्तग्रहणं पदान्ताधिकारनिवृत्त्यर्थमिति वृत्तिः कथं सङ्गच्छते, यावता पूर्वसूत्रे अवयवार्थः पदान्तशब्द इहापि अवयवार्थ एव युज्यते, तत्कथमिह सामीप्यार्थः स्यात् । न च वक्तव्यम् "पुरोऽग्रतोऽग्रेषु सर्तेः" (४।३।२०) इति वचनात् पूर्वसूत्रीयपदान्तग्रहणस्य सामीप्यार्थत्वमिह व्याख्येयम् इत्युभयार्थत्वे प्रमाणाभावात् ।
अत्र वैयः - एदोद्भ्यामलोप इत्यास्ताम्, ततश्चानुवृत्तेन पदान्तग्रहणेन विशेषितत्वात् पदान्ताभ्यामेदोद्भ्यां पर इत्यर्थेऽभिमतं सिध्यति किमन्तग्रहणेनेति शिष्यजिज्ञासायामन्तग्रहणस्य प्रयोजनं वृत्तावुक्तमित्याचष्टे | तन्न, एदोद्ध्यामिति सूत्रेऽकारस्य विशेष्यत्वे (प्राधान्यात्) प्रयोजनत्वात् तेनैव सहान्तशब्दसम्बन्धात् पूर्वोक्तदोषापत्तिरिति । ___अन्ये तु अनुवर्तमाने पदान्तग्रहणस्यैव सामीप्यार्थत्वं व्याख्येयम् । अन्यथा तत्रैव पदे इत्येवं विदध्यात् ! पदे परे अयादीनां यवलोपो भविष्यति, किमत्रान्तग्रहणेनेति । तथा च कुलचन्द्रेणाप्युक्तम् - अनुवर्तमानेन अन्तग्रहणेन शक्यमीदृशं व्याख्येयम् इत्याहपदान्त इत्यादि । तदप्यसङ्गतम् । पूर्वसूत्रे पद इति निमित्तसप्तमीनिर्दिष्टत्वात् तत्रापि तस्यैव पदेऽकारलोपो भवतीत्यर्थः कथं न स्याद् इत्याशङ्का स्यादिति । ननु देवदत्त इत्यत्रैव वाक्यसंस्कारपक्षः स्यात् ।
किं च 'गवित्ययमाह' इत्यत्र पूर्वेण वलोपः स्यात्, त आहुरित्यत्र प्रदानुकरणे च अकारे परे यकारस्य लोपो न स्यात् । नन्वेवं पूर्वसूत्रेऽन्तशब्दोऽवयवार्थ एवेति कथं निश्चितमिति चेत्, यस्य पदान्ते वर्तमानौ यवौ श्रुतत्वात् तस्यैव पदस्य तौ ग्राह्यौ पदान्तरकल्पनायां गौरवादवयवार्थ एव निश्चित इति । एवं “वर्गप्रथमा०" (१।४।१) इत्यत्रापि अवश्यं पदान्तग्रहणमिति |