________________
१६८
कातन्त्रव्याकरणम्
[दु० वृ०]
‘एदोद्भ्यां परोऽकारः 'पदान्ते वर्तमानो लोपमापद्यते । तेऽत्र, पटोऽत्र । एदोभ्यामिति किम् ? तावत्र । पदान्तग्रहणं पदान्ताधिकारनिवृत्त्यर्थम् । तेन चितम्, स्तुतम् ।।४०।
(दु० टी०)
एदोत् । एच्च ओच्च एदोतौ, ताभ्यां पर इति पञ्चमीलक्षणस्तत्पुरुषोऽयम् । न च एदोतौ परौ यस्मादिति बहुव्रीहिः, एकारे ओकारे च ऐकारस्य औकारस्य च विषयत्वात् । न च पदमध्ये तो असन्ध्यक्षरयोरस्य तौ तल्लोपश्चेति वचनात् । परग्रहणं वैचित्र्यार्थमेव | पदस्यान्तः पदान्तः इत्यन्तशब्द इह समीपवचन एव । यथा गुरोरन्ते वसतीति । अथवा पदान्ते यावेदोतौ ताभ्यां पर इति । पदान्तग्रहणम् इत्यादि । अन्यथा उत्तरत्र पदान्ताधिकारे सति 'चितम्, स्तुतम्' इत्यत्र व्यञ्जने यत्वं वत्वं च स्याद् अपदान्तत्वादिति ।
ये तु "स्वरजी यकारवकारावनादिस्यौ लोप्यौ व्यञ्जने" (कात० परि०, सं० ३१) इति सूत्रं नाद्रियन्ते तेषामिदं व्याख्यानम् । येषां तु सूत्रमस्तीति दर्शनम्, तैः पदान्तग्रहणमधिकरणीयमेव । चितम्, स्तुतम्' इत्यत्र न व्यञ्जने इति पुनर्व्यञ्जनवचनाद् अपदान्तत्वेऽपि न सन्धिः । इदमिह पदान्तग्रहणम् अप्रधानयोरप्येदोतोर्विशेषणार्थम् । अन्यथा अकारस्यैव विशेषणं स्यात् । एकस्मिन्नाद्यन्तवदुपचाराद् ‘अग्ने अ आगतः, पटो अ अत्र' इति । स्वरजौ यकारवकारौ पदान्तावनादिस्थौ लोप्यौ व्यञ्जन इति | स्वरे जातौ स्वरजौ - "सप्तमीपञ्चम्यन्ते जनेईः" (४।३।९१)। न आदौ तिष्ठत इति अनादिस्थौ, "नाम्नि स्थश्च" (४।३।५) इति कप्रत्ययः । स्वरजौ यकारवकारौ पदान्तावनादिस्थौ व्यञ्जने परे लोप्यौ भवतः।
अधि+ उ + इन्दुः = अध्विन्दुः। उमीशमध्यारूढोऽध्युः, अध्युश्चासाविन्दुश्चेति विग्रहः । साधु+ ई + उदयः, साधोरी श्रीस्तस्या उदय इति साध्व्युदयः । पटो + उ+ आगतः = पट्वागतः । नारि + उ + अर्चा = नार्वर्चा | अव्ययमाचक्षाणो वृक्षवृश्चमाचक्षाणो यः स खलु 'अव्यय, वृक्ष' एतावपि यकारवकारौ स्वरे सति जाती
१. 'पदान्ते' इत्यस्य सम्बन्धः एदोद्भ्याम्' इति पदेन सह कर्तव्यः,अकारस्य पदान्तत्वानपेक्षितत्वात् ।
तस्मात् पदान्ते वर्तमानाभ्यामेदोद्भ्यां परोऽकारो लोपमापद्यते' इत्यर्थोऽवगन्तव्यः ।