________________
.
कातन्त्रप्याकरणम् यथा-दधि अत्र, दध्यत्र । कुमारी अत्र, कुमार्यत्र, कुमारि अत्र इति रूपत्रयम् । समासे तु सन्धिरेव । दध्योदनं कुमार्याकार इति । तथा प्रकृतेः पूर्वं पूर्व स्यादन्तरङ्गमपि कार्य नित्यमेव । यथा - अध्यास्ते, व्युदस्यतीति । तथा चाह जयादित्यः- "पदयोः सन्धिविवक्षितो न समासान्तरङ्गयोः" (द्र०, काला० परि० सू० ८४) इति ।
गवाजिनम् इत्यादि । गवामजिनमिति विग्रहः। "स्वरे विभाषा" इत्यकारवर्णागमस्येत्यर्थः । गवाक्ष इति । गवाम् अक्षीति विगृह्य "अचक्षुरक्षि"(२।६।७३२४) इति राजादित्वाद् अत्, "इवर्णावर्णयोः" (२।६।४४) इत्यादिना इकारलोपः, पुंस्त्वं तु संज्ञाशब्दत्वात् । अक्षशब्देन वा । गवामक्ष इति विग्रहः । नित्यत्वं पुनर्वर्णागमस्य वातायनविषय एव, प्राण्यङ्गे तु न भवत्येव गोऽक्षीति । तथा गवामिन्द्रो गवेन्द्र इति नित्यमकारवर्णागमः । कथमेतत् ? लोकोपचारात् । तथा चोक्तम् -
वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्णविकारनाशौ । धातोस्तदतिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥इति ।
(द्र०, का० वृ० ६।३।१०९) तेन गोः । “अवङ् स्फोटायनस्याक्षे, इन्द्रे च नित्यम्" (पा०६।१।१२३, १२४) इति गोशब्दस्यौकारस्यावङादेशो न वक्तव्यः । ओकारस्य प्रकृतिभावो दृश्यते । यथा गो अजिनम्, गो अग्रम् इति ।।३८ ।
[क० च०] ___ औ०। विसन्धिः स्पष्टार्थोऽपि ज्ञापक इति पूर्वमुक्तम् । एवं रायैन्द्री, पटवोतुरिति । ननु 'अग्नये' इति कथं नोदाहृतम्, अत्रापि सवर्णत्वात् प्राप्ति स्तीति कुचोयमेतत्, अस्योपलक्षणत्वात् । एकयोगस्तु-अवर्ण इवर्णादिष्वेदोदरलः, एत्वमेदैतोः, ऐत्वमोदौतोः। सन्ध्यक्षरे ऐदौदिति तु नैकयोगः, समानसङ्ख्यत्वाभावाद् यथासङ्ख्यत्वाभावे ओकारौकारयोरैत्वादिप्रसङ्गात् । इवणदिरसवर्णे यवरलाः, न च परो लोप्यः, सन्ध्यक्षराणामयायवावः ? सत्यम् । स्पष्टार्थम् ।
ननु स्पष्टार्थं चेति भिन्नयोग एवास्ताम्, किं विसन्धिनिर्देशेन । नहि विसन्धिनिर्देशे किमिहाविस्पष्टं भवतीत्याह- किञ्च इति । समानस्य ऋकार इति प्रकृतिभावस्य ह्रस्वस्य च उभयोरेव विकल्पः। अन्यथा प्रकृतिभावस्य विकल्पे हस्वम् अविकल्पयितुं न पार्यते । ततश्च 'नदी ऋच्छति' प्रयोगो न स्यात् । नच वक्तव्यं प्रकृतिविधानादेव