________________
सन्धिप्रकरणे द्वितीयः समानपादः
१६१ ह्रस्वो न वर्तिष्यते इति यत्र ह्रस्वो नास्ति तत्र सार्थकत्वादस्येति । यथा - दाम ऋच्छति | रूपद्वयमेव ।
यदि च ह्रस्वो विकल्प्यते तदा प्रकृतिरिति विकल्पयितुं न शक्यते । ततश्च प्रकृतिभावस्य नित्यं प्राप्तौ सत्यां 'नदी ऋष्यः, नदि ऋष्यः' इति रूपद्वयमेव | न 'नघृष्यः' इति रूपम् । अन्यथा प्रकृतिभावस्य वैयर्थ्यप्रसङ्गः स्यात् । नच वक्तव्यं ह्रस्वविकल्पबलादेव पक्षे प्रकृतिं बाधित्वा यत्वं स्याद् 'नदी ऋच्छति' इति ह्रस्वाभावेनैव तदर्थस्य सार्थकत्वात् ।
प्रकृतेः पूर्वम् इत्यादि । उभयपूर्वग्रहणान्नियतपूर्वमात्रे बोद्धव्यम् । नियतस्वरूपेण यत् प्रकृतेः पूर्वं तदाश्रितमपि कार्यमुपचारात् पूर्वं तदन्तरङ्गमित्यर्थः । तत् पुनर्धातूपसर्गयोरेव नित्यं सन्धिरवगन्तव्यः । तथा चोक्तम् -
'संहितैकपदे नित्या नित्या धातूपसर्गयोः।
- सूत्रेष्वपि तथा नित्या सैवान्यत्र विभाषया ॥ अत एवाध्यास्ते, व्युदस्यतीति धातूपसर्गयोर्नित्यसन्धिर्दर्शितः । उमापतिस्तु अत्र अधीते इति पाठमपास्य अध्यास्ते इति पाठं मन्यते । तस्यायमभिप्रायः - समानस्य नामिन इत्यादिनाऽसवर्णे विकल्पविधानात् तद्व्यावृत्त्या सवर्णे सन्धिरस्त्येव, तत्रोदाहरणं फलशून्यम् इति । तन्न, अभिप्रायापरिज्ञानात् । तथाहि 'इदं हि पदयोः सन्धिर्विवक्षितः' इतिभागस्य प्रपञ्च इति मतम् । अतस्तस्य समासान्तरङ्गाविषयत्वात् प्रपञ्चस्यापि तद्भिन्नविषय इत्यसवर्णस्य व्यावृत्तिरपि समासान्तरङ्गभिन्नविषय एव कुतोऽत्र देश्यावतारः । अन्ये तु दृष्टान्ततयोदाहरन्ति । यथा अधीते इत्यत्र नित्यसन्धिस्तथा व्युदस्यति इत्यत्रापि ।
ननु समासे कथम् – 'उच्चारितरुचिरऋचा चाननानां चतुर्णाम्, हिमऋतावपि ताः स्म भृशस्विद्' इति विसन्धिः ? एतत्तु न बहुसम्मतमित्युपेक्ष्यते । भाष्यचान्द्राभ्यां समासमात्रे प्रतिषेधस्योक्तत्वात् । नहि तेषामनित्यसमास इत्यादि । प्रकृतिहस्वयोर्नित्यसमासे निषेधः, अनित्यसमासे विकल्प इति वार्त्तिकम् । तद् दृष्ट्वा श्रीपतिनापि तथैव
१. संहितैकपदे नित्या नित्या धातूपसर्गयोः।
नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ (सि० कौ०-भ्वा० प्र० ८।४।१८)