________________
१५९
सन्धिप्रकरणे द्वितीयः समानपादः
३८. औ आव् (१।२।१५) [सूत्रार्थ]
असवर्ण स्वर के पर में रहने पर औ को आव् आदेश होता है तथा परवर्ती वर्ण का लोप नहीं होता ।।३८।
[दु० वृ०]
औकार आव् भवति असवर्णे, न च परो लोप्यः । गावौ, गावः । एतेषु विसन्धिः पृथग्योगश्च स्पष्टार्थः । विवक्षितश्च सन्धिर्भवति । गवाजिनम्, गोऽजिनमिति स्वरे विभाषा | गवाक्षः, गवेन्द्र इति नित्यमकारवर्णागमः ।।३८।
[दु० टी०] औ० । अकारवर्णागम इति लोकोपचारात् -
वर्णागमो वर्णविपर्ययश्च दौ चापरौ वर्णविकारनाशौ। घातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥
(द्र०, का० वृ० ६।३।१०९) गवाक्ष इति वातायन एव रूढः । इन्द्रादावपि गवेन्द्रदत्तः । अकारस्य प्रकृतिरपिगो अग्रम् ।।३८।
[वि० प०]
औ०। गावौ, गावः इति । “गोरौ घुटि" (२।२।३३) इत्यौकारः । ननु कथं गावावित्यत्रावादेशः समानो वर्णः सवर्ण इत्यन्वर्थसंज्ञायामोकारस्य सवर्णत्वात् ? सत्यम् । तत्रानन्तरत्वात् समाना एवानुवर्तिष्यन्ते । ततो द्वौ द्वौ समानौ सवर्णावित्युक्ते व्यावृत्तिबलादसमानस्य सवर्णत्वं नास्तीति । एवं रायैन्द्री, पटवोतुरित्यत्रापि | एतेष्वित्यादि- "अवर्ण इवणे ए" (१।२।२) प्रभृतिषु यथायोगं विसन्धिनिर्देशः पृथग्योगश्च स्पष्टार्थः। किञ्च अत एव सूत्रनिर्देशा ज्ञापयन्ति- विवक्षितश्च सन्धिर्भवति, तेन ऋकारे समानस्य प्रकृतिभावो विभाषया भवति - खट्वा ऋष्यः खट्वर्ण्यः । नदी ऋष्यः नदृष्यः । तथा "याकारी स्त्रीकृतौ हस्बौ क्वचित्" (२।५।२७) इति क्वचिद् ग्रहणबलात् पक्षे ह्रस्वत्वम् । 'खट्व ऋष्यः, नदि ऋष्यः' इति रूपत्रयं सिद्धम् । तथा समानस्य नामिनोऽसवर्णे स्वरे वा प्रकृतिर्दीर्घस्य च ह्रस्वोऽसमासे इति ।