________________
सन्धिप्रकरणे द्वितीयः समानपादः
१४९ समिदत्रेत्यत्रापि अकारस्य यकारस्थानोच्चार्यमाणवर्णापेक्षयाऽसवर्णत्वमित्यस्ति यत्वप्रसङ्गः । एवं च सति त्वगिह, वाग्गच्छतीत्यत्र तृतीयस्य सावकाशता । 'दध्यत्र' इत्यत्र यत्वस्य चेति, समिदत्रेत्यत्र तृतीय एव । नच वक्तव्यम् “समानः सवर्णे" (१।२।१) इत्यत्रापि यत् किञ्चित् समानापेक्षया सवर्णत्वात् ‘तवेहा' इत्यत्रापि दीर्घः स्यादिति समानस्य कार्यिणः श्रुतत्वाद् यस्य समानस्य कार्यं विधातव्यम्, तत्कार्यापेक्षया सवर्णव्यवहारात् । ननु तत्र समानग्रहणस्यान्यदेव फलं तत् कथमेवं व्याख्यायते, नैवं समानग्रहणाभावे सवर्णस्य (स्या) नियतत्वाद् यदपेक्षया सवर्णत्वं श्रुतत्वात्तस्यैव दीर्घः।
न च समानो वर्ण इत्यन्वर्थबलात् समानो यो वर्णस्तद्भिन्नत्वमसवर्णत्वमिति वाच्यम्, 'कृत्रिमाकृत्रिमयोः कृत्रिमविधिर्बलवान्' (सं० बौ० वै०, पृ०२२१) इति न्यायात् । अत एव वाग् गच्छतीत्यादौ तृतीयस्य सावकाशता इति निरस्तम् । स्वरे परे (निरवकाशत्वम्) तृतीयस्य सावकाशताविरहात् । यद्येवम्, यत्र तृतीयस्य न विषयस्तत्र तर्हि स्यात् । यथा भवानत्रेति । अत्रापि यकारस्थानोच्चार्यमाणवर्णापेक्षयाऽकारस्यासवर्णत्वमित्याह - किञ्चेति । यदा तु सादृश्यापेक्षयापि यस्य स्थाने यत्वं विधीयते तदपेक्षयैवासवर्णत्वं गृह्यते, तदा इवर्णग्रहणं सुखार्थम् । चकारस्य सवर्णव्यवहार एव नास्ति, कथं तद्भिन्नोऽसवर्णः प्रतिपत्तव्यः ? शङ्केतेति शङ्कामात्रं न तु परमार्थत्वम्, सन्नियोगशिष्टत्वसम्भवेऽन्वाचयशिष्टकल्पनाया अन्याय्यत्वात्, तत् (उभयकार्यस्यैव) कार्यासम्भवादित्यर्थः।
अन्ये तु जसीति निर्देशादित्याहुः । दधीति । ननु एतानि कार्याणि संहितायामेव भवन्तीति न विसर्जनीयसूत्रे वक्ष्यते, तत्कथमत्र प्राप्तिः ? असमाने संहिताया अभावात् । नच वक्तव्यम् - पूर्वेण वर्णेन सह संहिताऽस्त्येव कथं संहिताभावे सन्धिप्राप्त्यभाव इति । यतः परेण सह पूर्वस्य निरन्तरोच्चारणेष्वेव संहिताव्यवहार इति । तथा च सति इवर्णस्य संहिताव्यवहारः परवर्णसत्त्व एव सम्भवति ? सत्यम् । एतदेवासवर्णग्रहणं ज्ञापयति- परानपेक्षं कार्यमसंहितायामपि भवति । "नामिपरो रम्" (१।५।१२) इत्यत्रास्य फलं वक्ष्यामः । असवर्णग्रहणाभावे च्चिप्रत्ययपक्षे दीर्घस्य दीर्घाप्राप्तिः । परत्वात् परलोपं बाधित्वा यत्वं कथं न स्यादिति न परिहारः । यतः समानग्रहणमश्रुतादपि दीर्घात् समानस्य लोपार्थमिति । ननु "न च परो लोप्यः" (१।२।८) इत्याशङ्काबीजेन चकारेण किम् ? नैवं चकारं विना वाक्यद्वयार्थप्राप्तेरभावात् ।