________________
कातन्त्रव्याकरणम्
ननु परग्रहणं किमर्थम् ? सर्वत्र " परश्च लोपम्” (१ । २ । १) इत्यधिकारो वर्तते, तेनायमर्थो भविष्यति - इवर्णो यम् आपद्यते न च लोप्य इत्युक्ते परो न च लोप्यो भवति इत्यर्थो भविष्यति ? सत्यम् । परग्रहणाभावे श्रुतत्वाद् इवर्णेन सह "नच लोप्यः” ( १ । २।८) इत्यस्य सम्बन्धः स्यात् । तथा च सति 'इवर्णो यमापद्यतेऽसवर्णे इवर्णो नच लोप्यः' इति सूत्रार्थे सति मृग्या इदं मार्गम् इत्यत्र अणि कृते इवर्णावर्णयोरित्यादिना प्राप्तस्य ईकारलोपस्य बाधा स्यादिति ।
१५०
नच वक्तव्यम्, तत्र इवर्णग्रहणमनर्थकमिति सवर्णे परे यकारे च सार्थकत्वात् । यथा खरनर्दिनोऽपत्यम्, बाह्वादित्वाद् इणि कृते "नस्तु क्वचित् " ( २ | ६ |४५) इति नलोपे खारनर्दिरिति । तथा कपौ साधुः कप्यः इति । नच वक्तव्यम्, एतत्प्रकरणविहितस्यैव लोपस्य प्रतिषेधो यतः प्रतिषेधस्य प्राप्तिरेव विषय इति । नच इवर्णावर्णयोः प्राप्तस्य तस्य लोपस्य प्रकरणान्तरविहितत्वाद् इति पर एवावशिष्ट इति वाच्यम्, इवर्णस्य श्रौतसम्बन्धस्य बलवत्त्वात् । तर्हि लोप्यग्रहणं किमर्थम् ? पूर्वस्मात् परश्च लोपमित्यधिकारो वर्तते एव । ततश्च परलोप इत्युक्ते 'नच परो लोप्यः' (१।२।८) इत्यर्थो निर्विवाद एव घटत इति ? सत्यम् । सुखार्थम् । ननु यथा देवदत्तो धनं प्राप्नोतीत्यादौ देवदत्तधनयोः स्थितिस्तद्वदत्रापि यकारेकारयोः स्थितिः स्थात् । नैवं वर्णानां तदादेशेनैव प्राप्तिः प्रतीयत इति ।। ३१ ।
[समीक्षा]
-
'दधि + अत्र, नदी + एषा' आदि स्थिति में कलाप तथा पाणिनीय दोनों ही व्याकरणों के अनुसार असवर्ण स्वर के पर में रहने के कारण इवर्ण ( इ-ई) के स्थान में यकारादेश उपपन्न होकर 'दध्यत्र, नद्येषा' शब्दरूप निष्पन्न होते हैं । इन दोनों व्याकरणों में अन्तर यह है कि पाणिनि के सूत्र - "इको यणचि " ( पा० ६ | १|७७) द्वारा इक् के स्थान में यण् आदेश विहित है । इक् चार हैं - 'इ उ ऋ लृ । यण् भी चार हैं - ‘य्-व्-र्-ल्' । इ के स्थान में य्, उ के स्थान में व्, ऋ के स्थान मेंर् तथा ॡ के स्थान में लू ही आदेश हो - एतदर्थ " यथासंख्यमनुदेशः समानाम् ” (पा० १ । ३ । २०; काला० परि० सू० २३) सूत्र बनाया गया है । अन्यथा किसी भी इक् के स्थान में कोई भी यणादेश प्रवृत्त हो सकता था । इवर्ण के १८, उवर्ण के १८, ऋवर्ण के १८ तथा तृवर्ण के १२ भेद होने के कारण इक् ६६ होते हैं तथा यू के २, र का १, ल् के २ एवं व् के २ भेद होने से यण् ७ ही हैं ।